SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ पण्डित दुकमिश्रकृत [ पृ. ७०. पं. २८ तस्य प्रमाणबलायातस्यार्थस्य संप्रत्ययो [ ७०.२८ ] यथाशं कार्थाव्य ( ० काव्य ) वच्छेदः तदर्थं यथा भवति । यदि प्रमाणानां व्यापारो निगमनेनोपसंहियते । तदैतद्युज्यते बक्तुम् । न चास्य तथात्वमित्याशंक्याह अशषे[ ७०.२८ ]ति चो [ ७०.२९] यस्मादर्थे । व्यापारशब्देन व्यापारफलमभिप्रेतम् । ३२० ननु कानि पुनरत्र प्रमाणानि सन्ति यद्बलायातार्थोपसंहरणमस्य वर्ण्यत इत्याशङ्कय परैरेषामवयवानामेवं प्रमाणत्वरूपमाख्यातमित्याख्यातुं तथाही [ ७०.२९ ] त्यादिनोपक्रमते । उपरी [ ७१.४ ]ति प्रकरणादन्यकृतस्य नाम्न इति द्रष्टव्यम् । तथाहि ते कस्यचिद्राजपुत्रस्य महामात्रस्य वा योगिनो (ना) ऽन्येन सजातीयेन कृतं नाम श्रुत्वा अहोपुरुषिकया धनाशया चोदिता अन्यथा चा (वा) तदु [त् ] साहवर्धनं नाम कृत्वा तल्लिखित10 प्रयुञ्जतेऽत एव नामलेखनमि' [ ७१.४ ]ति णिचा निर्दिष्टम् । अयुक्ततया निष्फल. मपी [७१.५]ति वास्तवानुवादाऽप्येष प्रकृतोपयोगी । बालप्रतारकश्च तसदुपयोगबर्णनञ्चेति' तथा तल्लक्षणया [ ७१.१३ ] | वैयर्थ्यादि स्यादिति सम्बन्धात् प्रतिज्ञावचनस्ये[ ७१.२१]त्युक्तम् । धोतरोपवर्णितमस्य प्रयोजनमस्तीति कथं वैयर्थ्यमित्याह यसूक्तमि[ ७१.२२]15 ति । दत्तमुत्तरमि [ ७१.२३]ति । तेनैव तावद्दर्शितेने' [६६.३ ]त्यादिनोक्तत्वादुक्तम् । यथोक्ते च स्वयमुत्तरमाह यश्चे [ ७१.२३ ]ति । तदभावे [ ७१.२७] प्रथमं साध्यलक्षणकर्मनिरूपपणाभावे । स्वार्थानुमानदृष्टश्चे [ ७०.२१] त्यादिना च यदुपनयसमर्थनार्थ परेणोक्तं तत्प्रतिविधातुकाम आह यश्चानी [ ७२.१ ] त्यादि । चो यस्मादर्थे । ४. कदाचिदि [ ७२.४ ]ति यदा धूमं दृष्टा तस्याग्निना व्याप्तिमनुस्मृत्य तं तत्त्वेन प्रत्यव - 20 मृश्य प्रत्येतीति। अस्य [ ७२.४] प्रत्यवमृश्य प्रत्ययार्थस्य । तदे [ ७२.४ ] त्याद्युतरम् । अथ तदन्तरेणापि यत् पक्षार्थप्रतीतेरविधातान्न तेन किञ्चिदिति ब्रूयात् । समानमिदं प्रकृतेऽपीति च बुद्धिस्थमस्यैवं ब्रुवतो द्रष्टव्यम् । प्रमाणव्यापार समर्थनार्थञ्च यदुक्तं ' तंत्राप्याह । यत्पुनरि[ ७२.७]ति । न कचिदागमे पठ्यत [ ७२.९] इति ब्रुवता चागमप्रतिज्ञयोरेकविषयत्वादागमः प्रति' ज्ञेत्युच्यत 25 इति ये वर्णयन्ति [ते] निरस्ताः । यो हि प्रतिज्ञयोच्यतेऽर्थः स एव चागमेप्युच्यते तदैव तत्स्यात् । न चैवमतों निरासः । १. नामलेखने-S ३. पृ. ७० पं. २९ Jain Education International For Private & Personal Use Only २. ' अपि ' नास्ति-S www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy