________________
११८
पण्डितदुर्वेकमिभकृतो [पृ. ६९. पं. १४नित्यत्वस्य वा। यदि घटादेः , घटादिहेतुः प्राप्तः। अनित्यः शब्दो घटात्। अथ शब्दस्य, शब्दो हेतुः प्राप्नोति । अनित्यः शब्दः शब्दात् । अ(अथा)नित्यत्वस्य 'साध्यसाधनकृतकत्वं धर्मस्तथाप्यनित्यः शब्दोऽनित्यत्वादिति प्राप्नोति । अथानित्यत्वस्यार्थः कृतकत्वमिति । सर्वथा कृतकत्वमनित्यत्वे न हेतुः स्यात् । अथ समानाधिकरणो नान्तरीयकश्चा5 सावर्थश्चेति । तथाप्यसमर्थः समासो विशेषणविशेष्यनियमाभावात् । उभयपदव्यभिचारे सति समानाधिकरणो भवति नीलोत्पलवत् । नीलशब्दस्यानेकार्थप्रवृत्तत्वादुत्पलशब्दस्य च तथाभावात् सामानाधिकरण्यं भवति । न पुनरिह नान्तरीयकत्वे इत्यु(क इत्यु)क्ते ऽस्ति व्यभिचारोऽर्थोऽनर्थ इति येनार्थग्रहणं समर्थं स्यात् । एकपदव्यभिचारेऽपि दृष्टं सामानाधि
करण्यं पृथिवी द्रव्यम्' इति चाशंक्योक्तम् 'अन्यथा तं( तत् )पृथिवी द्रव्यमिति । अत्रोभय10 पदव्यभिचारः । प्रधानाङ्गभावस्य भेदेन पृथिवीशब्देन द्रव्यमप्युच्यते पृथ्वीत्वञ्च । द्रव्यशब्देन
च प्रधानाङ्गविवक्षया द्रव्यं द्रव्यत्वञ्च अत एवोभयपदव्यभिचारात् पृथिवी द्रव्यमिति युक्तमुक्तम् । इह पुनर्न युक्तं नान्तरीयकद(कार्थदर्शनमिति । कस्मादर्थप्रत्यायनार्थत्वाच्छब्दप्रयोगस्य-अर्थप्रत्यायनार्थहि शब्दस्य प्रयोगमिच्छन्ति । नान्तरीयक इति चोक्तेऽर्थो
गम्यते । अतो न युक्तोऽर्थशब्द इति । तद्विद इति न युक्तम् नैवान्यथानान्तीयक(?) 15 इति । न हि नालिकेरद्वीपवासिनो धूमदर्शनान्नान्तरीयक इति ज्ञानमस्ति। अतस्तद्विद
इत्यपि न वक्तव्यम् । " (न्यायवा० पृ. ५४ -५५) असन्त एव दोषा इति ब्रुवाणश्चायमेवाभि(वमभि)पैति । समासान्तरपक्षभाविनस्तावदोषानभ्युपगममात्रेणैकाहारनिहताः । समानाधिकरणसमासस्त्वेकपद'व्यभिचारेपि दृष्टत्वान्नानुपपन्नः । तथागों
नान्तरीयकोऽपि स्यादनित्यलक्षणोऽनान्तरीयकोऽपि स्यात् नित्यलक्षणः । तत एकपद20 व्यभिचारादपि सामानाधिकरण्यमविरुद्धम् । अथ त्वन्मते नित्यो नामास्त्येव कल्पविपरिवर्ति
तावदस्ति, तत एवैतदुपलप्स्यते । अन्यथायमनित्यध्वनिः कं व्यवच्छिद्यात् । बौद्धाभिमतस्य च तथाभूतस्य क्षणिकत्वस्य केनचिनिष्टेः तथाभूतव्यवच्छेदात् नैवाक्षणिकज्ञानवस्त्वित्यादौ प्रयोगेऽयमक्षणिकध्वनिः कं व्यवच्छिद्यात् । अथ नान्तरीयक इति पूर्वमुक्तेऽर्थस्यावगतत्वात् किमर्थपदेन येनैवं समासश्चिन्त्येत । हन्ताकाशा[दि]शब्देनैव पूर्वभाविना 25 द्रव्यादिरूपस्यावगतत्वारिक द्रव्यादिशब्देन ये' [35b]न तत्रापि तथा समासः स्यात् ।
तदेवमादौ य एव ते परिहारः समाधिर्भ (स मेऽपि भविष्यति इति यत्किञ्चिदेतत् । यत्तु पृथिवी द्रव्यमित्यत्रोभयपदव्यभिचार दर्शयित्वा सर्वत्रोभयपदव्यभिचारादेव समानाधिकरणः समासो भवतीति दर्शितं तद्योयः(तत् पापीयः) । आकाशद्रव्यं दिग्द्रव्यं कालद्रव्यम् , १. अनित्यत्वस्य साधनभावेन कृतकत्वं धर्मः । न्यायवा० पृ. ५४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org