________________
३१७
पृ. ६९. पं. १४.]
हेतुबिन्दुटीकालोकः।। युष्मा नेवाध्येष्य सामान्यतो विशेषतश्चैव पृच्छाम इति । उपहासे चेयमध्येषणा प्रकरणाद् द्रष्टव्या ।
आदि[६८.४]शब्दाद्वैधर्म्यवत्प्रयोगस्य हेतुविरुद्धानकान्तिकानां हेतोस्त्रै. रूप्यस्य च ग्रहणम् । प्राक् प्रतीति[६६.२ ३]शब्देनाचार्येण साधर्म्यवैधर्म्यवत्प्रयोगयोहेतुविरुद्धानैकान्तिकानां हेतोस्त्रैरूप्यस्य च स्वरूपप्रतीतिर्विवक्षितेत्यभिप्रेत्य साधर्म्य- 5 वत्प्रयोगादेः [६६.२ ४] प्रतीतिरिति व्याचष्टे । अतएव क्रमेणैतत्सर्वं दर्शयिष्यते । . ननु किमवश्यं प्राप्तिः पक्षधर्मस्य च प्रयोगो येनैवमुच्यमानं शोभते इत्याशंक्याह-एवं मन्यत [६८.९] इति । तदनित्यमिति उक्त [६८.१८] इति योजयित्वा किं तन्मात्रोक्त्या सोऽवगम्यत इत्याशंकायां पक्षधर्मवचने सती[६८.१८]ति योज्यम् । यत्कचिदि[६९.५]त्यादि तु 'पूर्वमेव कृतव्याख्यानम् । अनुमानकाल एवात्र व्यवहार- 10 कालो[६९.६]ऽभिप्रेतः । न पक्षादिसकेतग्रहणापेक्षा [६९.६] वस्तुगतिरित्यनुवर्तते । आचार्यपादै[६९.१२]रित्याचार्यवसुबन्धुमभिसन्धायोक्तम् । नान्तरीयकार्थदर्शनं तखिदोऽनुमानमि[६९.१२]त्यास्यायमर्थः । योर्थः किंचिदन्तरेण न भवति स नान्तरीयकः । अत्र च सामर्थ्याद्यमर्थमन्तरेण न भवति तन्नान्तरीयक इति प्रायम् । स चासावर्थश्चेति तदा तस्य दर्शनम् । दर्शनेन च विषयिणा विषयस्य तस्यैव 15 दृश्यमानस्य' निर्देशः । तेन निश्चीयमान एवासौ परोक्षार्थहेतुर्भवतीति दर्शितम् । तद्रिद [६९.१२7 इति तन्नान्तरीयकतां यो वेत्ति तस्येत्यर्थः । अनुमान[६९.१२7हेतुत्वाचानुमानमुक्तम् । इति[६९.१३]र्गमकरूपमात्रस्य स्वरूपं दर्शयति 'वादविधौ वादविधिसंज्ञके प्रकरणे । तत्राप्या[६९.१४]चार्यांये लक्षणे । कैश्चि[६९.१४] दुद्द्योतकरप्रभृति[भिः] ! कुतः पुनरसंत एव दोषास्तैः कीर्त्यन्त इत्याशंकायां योज्यं 20 स्वप्रज्ञे[६९.१४]ति । स्वप्रज्ञाया अपराधो दोषस्तस्मात्। तु[६९.१४]रवधारयति । तथा ह्यद्योतकरेण किलानुमानसूत्रवार्तिकेऽ परे तु ब्रुवते नान्तरीयकार्थदर्शनं तद्विदोऽनुमानमिति" (न्यायवा० पृ.५४) पठित्वा तस्यार्थं मात्रया विवृत्त्यैव "अत्रार्थग्रहणमतिरिच्यत" ... इति मात्रयैव दूषणमुक्त्वा पुनर्विपञ्चितम्-'नान्तरीयकार्थ इति समासपदमेतत् । तत्र यदि षष्ठी'(33a]समासो नान्तरीयकस्यार्थ इति। नान्तरयिकं तावत्कृतकत्वम् , तस्यार्थो धर्मः 25 प्रयोजनम्बा ? यदि तावद् धर्मः कृतक[त्व]स्यार्थः, सत्त्वप्रमेयत्वाभिधेयत्वाद्यनुमानं प्राप्तम् । अथ प्रयोजनम् अनित्यत्वप्रतिपत्तिहेतुः प्राप्तः । अथ बहुव्रीहिर्नान्तरीयकोर्थो यस्येति । तत्रापि कृतकत्वं नान्तरीयकं तद्यस्य स हेतुः प्राप्तः । तच्च कृतकत्वं घटादेः शब्दस्या१. पृ. २६० पं. २३
२. नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org