________________
३१६
।
पडितदुवेकमिश्रकृती [पृ. ६७.. ३___ एवं तावदनेन व्याख्यातम् । केचित्पुनरन्यथाप्येतद् व्याचक्षते । उपस्थाप्यते प्रकाश्यते येन [६७.३] वचनेन तेन विना [६७.३] । अयमपि — प्रमेयस्योपदर्शनमन्तरेण ' [६९.२ ४] इत्यत्रोपदर्शनशब्देन वचनमेव व्याख्यास्य[ति] न तु पुरुषम् । तदपि अमिरत्रामिमानयं सामिरयमित्यादिरूपेणानिर्दिष्टविशेषं विवक्षितमित्यतः-केन5 चिदित्युक्तमिति कार्यिणो[६७.५]ऽर्थिनः। अर्थित्वं चान्यब्राह्मणाप्राप्त्यादिना द्रष्टव्यम् ।
मूल्यं [६७.६] निष्क्रयं मृगयते [६७.६] प्रार्थयते । इतस्ततः पार्वणश्राद्धादिभोजी द्विजः पर्वब्राह्मणः [६७.६] । अमुमैव दृष्टान्तं विवृण्वन्नाह यथे[६७.६]ति । दक्षिणा [६७.७] अत्र प्रकरणाद्भोजनानन्तरं दानं द्रष्टव्यम् । अन्यदा [६७.७]
अर्थविशेषाप्राप्तिकालादन्यस्मिन्काले । प्रार्थनापूर्वकमितस्ततो भोजनशीलतौर्ध्वरंथ्यिकः 10 पर्वब्राह्मणसदृशस्य चैतद्विशेषणं चरणम् । श्र(श्रा)द्धादी[६७.८]त्यत्रादिग्रहणादुपनयनसमावर्तनादिपर्वसहः । अर्जित्वमा नेपि नैतद्वचनं तस्य संभाव्यत इति तं विशेषयन्नाहश्रद्धालु[६७.८]मिति । श्रद्धालुं श्रद्धावन्तम् । अनेन श्रद्धानुविद्धमेवार्थित्वं कार्यशब्देन वार्तिककृतो विवक्षितमितिदर्शयति । घृतपुरः [६७.८] खाद्यविशेषस्तं प्रति ।
सोपि मह्यं प्रचुरो दातव्य इति द्विरुक्तेन दर्शयति । 'रूप्यं [६७.९] प्रचुरतरताम्रा15 ल्पतररूप्यघटितो द्रव्य विशेषः । दक्षिणायथादौ(णादौ) च प्रायेण रूपकेण व्यवहारः । ददातीत्यभिसम्बन्धाद् द्वितीया। तेन [६७.९] एवंवादिना पर्वब्राह्मणेन ।
ननूक्तमेतद्यथा परार्थेऽनुमाने लिङ्गं परस्मादेव प्रत्येयमिति तत्पुनस्त्वया न अपहस्तितमिति आशंकायां यदस्मद्वचनादपी[६७.१७]त्युक्तम् । तद् व्याख्यातुं किं चे[६७.११]त्यादिनोपक्रमते'[32b] किं चेति च ब्रुवाणो नियतं वक्तव्यान्तरसमुच्चये । भर्थादाचार्य20 स्याभिप्रेत इति दर्शयति न त्वस्यैव वक्तव्यान्तरसमुच्चयार्थः किंच[६७.११]शब्द
प्रयोगो घटते । यदपि ब्रवीषीत्यादेरस्मद्वचनादपीत्याचार्यवचनान्तरव्याख्यानपरत्वस्य व्यक्तत्वात् । अथवायं निपातानिपातसमुदायः किञ्चशब्दोऽस्य विवक्षितः किन्तु चकारः अपिशब्दस्यार्थे । तेन किमपीत्युक्तं भवति । ततोऽयं वाक्यार्थो यदपि किमपि ब्रवीषीति ।
एवं च ब्रुवता लोकोक्तिरनुकृतेति । तद्वचनस्य [६७.१८] लिङ्गवचनस्य, अनुसरि. 25 ष्यति [६७.२०] तदेव लिङ्गमिति प्रकृतत्वात । अङ्ग[६८.१]शब्दोऽत्राध्येषामन्त्रणे ।
किं[६८.१]शब्दः सामान्यतः प्रश्ने पुनः [६८.१] शब्दस्तु विशेषतः । तेनायमों
२. रूपकं
।
३. ददासि
।
१. औधरथिकः । ४. यतः अस्मद्वचनादपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org