________________
५.६७. पं. ३]
हेतुबिन्दु कालोकः ।
३१५
प्रदर्श्यमानायाञ्चेति शेषः । सर्वोपसंहारेण व्याप्तिग्रहणे प्लवमानाकारायाः प्रतिपत्ते - रुभयत्राविशेषान्मुखभेदमात्रेणैतदुक्तमित्यवसेयम् ।
साध्यनिर्देशः प्रतिज्ञा[६३.२४] तस्याः प्रयोगः [ ६३.२४] प्रयुक्तिः स न' दर्शितः [६३.२४] साध्यनिर्देशो न कृत इत्यर्थः । प्रत्यक्ष [ ६४.१२] ग्रहणं प्रमाणोपलक्षणं द्रष्टव्यं तेन तमिस्रायां रात्रौ प्राक्तनादिविप्रकृष्टे देशे कर्पूरोर्णादिगर्थ (गन्ध ) - 5 विशेषाद्धूमविशेषमनुमानतो निश्चित्याभिविशेषमनुमिन्त्रतोऽपि सङग्रहः । प्रतिज्ञाप्रयोगरहितादि [ ६४.१६] त्यवधारणफलप्रदर्शनमेतत् ।
अत्रार्थितैव कर्णमागत्य बुद्धिस्थं प्रकाशयति या पिशाची सा किल कर्णपिशाचिका [६४.१८] ।
लिङ्गस्य पक्षधर्मान्वयव्यतिरेकात्मनो गमकस्य अनुसरणं [६५.१२] निश्चयनम् । 10 इति: [६५.१४] हेतौ । उपहसति [६५.१४] त [32a ]त्तामधिरोहति । किमुपहसतीत्याह - यत्तदि [६५.१४]ति लोकोक्तिश्चैषा । कथं तत्स्पर्धाऽस्योच्यत इत्याह-तत्तुल्यत्वादि[६५.१५]ति । अस्य [६५.१५] अनुमातुः । क्रमस्य [६५,१५] समानाधिकरण षष्ठ्येव वा ।
तद्वचनस्ये '[६५.२३]त्यादिना पूर्वं स्वयं कारणमभिधाय आचार्योक्तं कारणं 15 दर्शयितुं परं प्रश्नेनोपक्रमयति कस्मादि [६५.२६ ]ति । यदि प्रतिज्ञाप्रयोगेऽपि सा शङ्का तर्हि ' किं तेनेत्याशङ्कय पर एवाह अनित्य [ ६६.१३] इत्यादि । तदा ( तुना) [६६.१३] प्रतिज्ञाप्रयोग पक्षं विशिनष्टि ' असति साध्यनिर्देश[ ६६.९]' इत्येवाभिसम्बध्यते । हेतुश्च विरुद्धश्च अनैकान्तिकश्च तेषां प्रतीति: [ ६६.१४] निश्चयो न स्यात् । इदमेव दूषणं तेन समुचितम् । अत्रैव दूषणान्तरमपि समुच्चिन्वन्नाह। 20 हेताश्चे[६६,१७]ति । स्वपक्षविशेषं दर्शयन्नाह । सति त्वि[ ६६.१८ ]ति । यावते[ ६६.२७]ति तृतीयान्तप्रतिरूपको निपातः किन्त्वेतस्यार्थे वर्तमानो अत्रो - पपत्तेः । तस्मिन्निबद्ध तद् ( तस्मिन्निव तद्वत् ) विषयः साध्यलक्षण उपस्थाप्यते [६७.३] उपनीयते येने[६७.३ ]त्यर्थकथनमेतत् । उपस्थाप्यते येन पुरुषेणासौ तथा, विषयस्य तथेति तु विग्रहः । तेनानिर्दिष्टविशेषेण केनचिद्विना [६७.४] कथं 25 पुनस्तान'(तेन) साध्यमुपस्थाप्यत इत्याशंकायां योज्य - प्रतिज्ञाद्वारेणेति । [६७.३] १. नोपदर्शितः । २. ' तु ' नास्ति S |
३. प्रतिज्ञावचनद्वारेणेति S |
6
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org