SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३१४ पण्डितदुवैकमिभकृतो [पृ. ६२. पं. ३दृष्टान्तधर्मिणोः समान: [६२.३] सदृशो हेतुसद्भावलक्षणो धर्मः [६२.३] प्रतिपाद्यतया यस्य [६२.३] प्रयोगस्यासौ सधर्मा, समानस्येति योगविभागात् समानस्य पक्षादिष्विति वक्तव्ये परिग्रहाद्वा स भावस्तस्य भावो [६२.३] भवतोऽस्मादभिधान प्रत्ययाविति कृत्वा [31b] 'रूपविशेषः । तयोरेव विसदृशो [६२.४] हेतुसद्भावा5 सद्भावलक्षणो धर्मः प्रतिपाद्यतया यस्य तस्य भावः [६२.५] अशेषस्य साध्ये तरधर्मिणः (साध्यधर्मिणः) साध्यधर्मणोवाऽन्यत्र सर्वत्र साध्ये हेतोाप्तिर्विवक्षिता । न तु साध्यधर्मणोऽन्यत्र दृष्टान्तधर्मिणि प्रवृत्तेन सर्वोपसंहारेण गृयमाणा व्याप्ति. बहियाप्तिः, तस्या निरासः [६२.९]। ननु च सत्वलक्षणे स्वभावहेतौ साध्यधर्मिण्यपि विपर्यये बाधकप्रमाणवृत्त्याऽपि 10 व्याप्तिर्ग्रहीतुं शक्यत इति । नैतदपेक्षया हेतोरन्यत्र वृत्त्यपेक्षया किंचियेनेदमासज्येत, किंतु कार्यहेतोः सर्वस्य स्वभावहेतुविषयस्य चावश्यमन्यत्र प्र(अ)वृत्तिरपेक्षणीया । तदर्थमन्यत्राऽननुवृत्तिरित्याशहितमिति किन्न भवान् व्याचष्टे । आचार्यस्य च सत्त्वत्पन्यासानन्तरं यथा घटादय [६२.९] इत्युदाहरणदर्शनात्तु त्वदीयं व्याख्यानमपव्याख्यानं लक्ष्यत इति निर्भर्त्सनामाशयास्याचार्यस्यान्यादृशमभिप्रायमुद्घाटयन्नाह यथा घटादय 15 [ ६२.९] इति । यस्य [६२.९] पुंसः । किं पुनस्तत्र स्मृत्याधानार्थ दृष्टान्तवचनम् , न तु दृष्टान्तमात्रप्रतिपादनार्थमित्याह-दृष्टान्ते[६२.११]ति' । अनेन पुरुषविशेष प्रति एतदाचार्येणेति नास्मद्व्याख्यानस्य किं चिदवद्यमिति दर्शयति । विभक्तिविपरिणामेन सम्बन्धमेव सर्वस्मिन्नि[६२.१६]त्यनेन दर्शयति । बहिरेवव्याप्तिपहियाप्तिस्ताम् । ते [६२.२३] निरस्ता भवन्ति[६२.२५] 20 इति सम्बन्धः । यद्यपी[६२,२३]ति निपातसमुदायो विशेषाभिधानार्था भ्युपगमे । तावते[६२.२ ४]ति साधनधर्मस्य साध्यधर्मेणान्वयदर्शनमात्रेणेति । भस्य [६२.२ ४] साधनधर्मस्य तथाभावस्य साध्येनान्वीयमानत्वस्य अभावात् [६२.२ ४] । प्रतिबन्धमन्तरेण तदभावेऽपि तदभा(तदा)वाविरोधादिति भावः । इतिः [६२.२५] हेतौ । तस्य प्रतिबन्धसाधकस्य प्रमाणस्य 'स्मरणाय 25 [६३.३] । धर्मविशिष्टः [६३.४] सिषाधयिषितधर्मविशिष्टो धर्मी [६३.५] शब्दादिः । तस्याः [६३.६] साध्यधर्मविशिष्टधर्मिप्रतिपत्तेः । व्याप्तिप्रदर्शनपूर्वके पक्षधर्मप्रदर्शनेऽभिधाय पक्षधर्मप्रदर्शनपूर्वके व्याप्तिप्रदर्शनेऽप्याह-तत्पूर्विकायां घे[६३.८]ति । तत्पूर्विकायां पक्षधर्मप्रदर्शनपूर्विकायां व्याप्तौ [६३.८] १. तत्स्मृतये SI . . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy