________________
पृ. ६२. पं. १. ]
"हेतुविन्दुटी कालोकः ।
३१३
व्यावृत्तिरेव घटो घटविनाशश्च घटा (ट) भावव्यावृत्तिरिति घटाभावस्याभावे घटरूपौन्मज्जना - संजन ज्याय एवेति ।
अत्रैवोपचयहेतुमाह नवे [ ६१.११]ति । स [६१.१४] नाशोऽहेतुः सन् तस्य [६१.१४] प्रध्वंसाभावस्य कथं जायेत [ ६१.१४] जनितुमर्हति ।
भाषानां [६१.१ ७] वस्तूनामयं विनाशाख्यो धर्म ऐकान्तिको [६१.१७] - 5 वश्यंभावी । 'अनेनैतद्दर्शयति-नवै कृतकत्वं निर्विशेषणं साधनमस्माभिरभिधीयते येनैवं स्यात् किन्तु वस्तुत्वविशेषणानव (नाव) च्छिन्नं ततो वस्तुत्वे सति यत्कृतकत्वं तदवश्यंभाविनाशमित्यर्थ इति । कुतः पुन [६१.१७ ]रित्यादिना सिद्धान्ती प्रतिविधत्ते क्षेपे किमः प्रयोगान्न कुतश्चिदित्यर्थः । एतद्[ि६१,१७]ति भावानामवश्यभावी विनाश इति । तेषां 'भावानामन्येथात्वस्य [६१.१८] अविनाशित्वस्यानुपलब्धेरेतदवसितमिति प्रकरणात् । 10 भवन्नपि [६१.१८] विद्यमानोपि । आत्मादेः [६१.१८] सत्ताथा अनिवर्तक [६१.१८] आत्माद्यभावस्यासाधकः कथमन्यत्र [६१.१८] वस्तुषु अन्यथाभावमविनाशित्वं निवर्तयति [ ६१.१९] निषेधयति । आत्माद्युपन्यासेन चैतद्दर्शयति । यद्यविनाशित्वानुपलम्भोऽविनाशित्वाभावं साधयति तर्हि विशेषाभावादात्माद्यनुपलम्भोपि तदभावं साधयेत् । न चायमपीति दृष्टान्तविघटनं परस्याशंकमान आह 15 तस्ये[६१.१९]ति । तस्य आत्मादेः । आत्मनस्तावद्रूपरसादिप्रत्ययानामेकाने करवसाधकस्यानाघितप्रतिसन्धानविषयत्वादेरनुमानात्' । आदि [ ६१.१८] शब्दसंगृहीतस्य च दिगादेः पूर्वापरादिप्रत्ययादेरनुमानत इति बुद्धिस्थम् । इतिना [ ६.१.१९] वक्तव्यस्याकारः कथितः । तत्राप्यनुमाने [६१.२०] तत्सत्त्वसाधके ।
1
ननु यस्यानुपलब्धिस्तस्याभाव एवेत्यभिघातरि कोऽयमुपालम्भः । विपक्षेपि हेतोर्वृत्त्य- 20 दर्शनेऽभावसिद्ध्यविरोधात्; आत्मादेस्त्व 'नुपलब्धिरेवासिद्धा ततो नाभावसिद्धिरिति । साधूक्तं भवता केवलं तत्रापी [ ६१.२० ]त्यादि ब्रुवतोऽभिप्रायो न सम्यग्व्यज्ञायि । अयं खल्वस्याशयः । तावद्धेतोर्विपक्षेऽनीक्षणं न क्षमते अभावं विभावयितुं, यावद्यद्यनोपलभ्यते तत्तन्नास्तीति न सिध्यति । सति चैवमात्माद्यनुपलभ्यमानमसत्सि' द्धमिति प्रमाणप्रतिक्षिप्तं कथमनुमानस्य विषयः स्यात् ? तदुक्तं " व्याप्तो हेतोरनाश्रय " इति । यदि वाऽनुप- 25 लम्भ एव प्रतिबन्धशून्यः केवलोऽनुपलम्भो देशकालविप्रकृष्टेषु कथं तथाभावमवबोधयेत् ? यतस्तेन सिद्धिविपक्षा हेतुव्यावृत्तिरात्मादेः सत्त्वमनुमापयेदिति । प्रयोगभङ्गयैव [६१.२५] प्रयोग विन्यासेनैव प्रसङ्गेना [ ६२.१] नुषङ्गेन प्रस्तावेनेति यावत् । साध्य१. संजायते S २. अन्यथाभावस्य S
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org