________________
पण्डितदुर्वेक मिश्रकृतो
[पृ. ६०. पं. २८विबन्धकानि योगिपिशाचादीनि तेषामप्यानन्त्यात् [ ६०.२८] । तद्भावे [६०.२८] तेषां विरोधिनां सद्भावे । तच्छक्तिप्रतिबन्धात् [ ६०.२८] तस्य नाशहेतोः शक्तेरुपघातात् । यदि ते तद्धेतवस्तैरवश्यं तत्फलैर्भाव्यमित्याह नावश्यमि[६०.२८]ति । इतिर्हेतौ सापेक्षोऽपि [६०.२९] हि निद्रादिर्वते 5 (हरिद्रादिवस्त्रे) द्रव्यापेक्षापि किं न स्यादिति प्रश्ने बौद्धीयं वचनं स्याद् [६१.२] यदि तथोपलभ्येते[ ६१.२]ति । तथा [६०.३] सर्वगतत्वेन । यद्येवमि[ ६०.३ ]ति परः । अन्यथाभाव [ ६१.४ ] स्य क्वचिदभवनस्य शंका संदेहस्तया नाधातव्यो [ ६०.४] न करणीयो भवद्भिरिति च प्रकरणात् । ' अनेनैतत्परो दर्शयति सर्वत्रापलब्धस्यान्यथाभावर्शकैव भवतः प्रेक्षावतो न युक्ता केवलमनेन व्याजेन नूनं 10 परसिद्धान्तस्यानवद्यतया मनःखेद एव त्वया क्रियत इति । किं पुनरि [६१.५]तिं सिद्धान्ती । सामान्यविशेषाकाराभ्यां प्रश्नः किंपुनः शब्देन निपातानिपातसमुदायेन दर्शितः । सनस्तवस्तुविस्तरव्यापी [ ६१.५] सर्ववस्तुबाहुल्यव्यापी ज्ञानालोको [ ६१.५] यस्य भवतः स तथा । यथा तु वस्तुविस्तरशब्दसिद्धिस्तथा पुरस्तादभिहितम् । तथाभावे [६१.६] सर्ववस्तु दर्शित्वे वा कस्यचिद्धेतुकृतो विनाशो दृष्टः । 15 सर्वस्यैव ताद्रूप्यमनिवारितमिति आह-कस्पचिदि [ ६१.६ ]ति । तुवधारणे हेत्वायत्तजन्मनाम् [६१.७] कारणान्तराधी नोत्पत्तीनां वस्त्ररागादीनाम् अन्यथापि दर्शनाद् [६१.८] अपितृत्वे (अपीतत्वे) नाप्युपलब्धेर्हेतोः उपजाता [ ६१.८ ]न्यथात्व शंका प्रकरणाद्विनाशस्याभावसंदेहो यस्य पुंसस्तथा सन् । अनेनार्थान्तरानुबन्धिनि विनाशे साध्ये कृतकत्वस्य संदिग्धविपक्षव्यावृत्ति कत्वेनानै 'कान्तिकत्वमाह । कृतकमपि चायम् 20 [६१.९]इत्यादिना तु साधारणानैकान्तिकं दर्शयति । भावाऽभाव [ ६१.१०]शब्देन प्रध्वंसाभावो विवक्षितः । तस्यैव स्वनिष्पत्तावपेक्षितपरव्यापारत्वेन कृतकत्वात् । तथात्वेनेष्टत्वाच्च । नित्यतोपगमे कारणमाह तद्विनाश [ ६१.१०] इति । तस्य भावाभावस्य प्रध्वंस लक्षणस्य विनाशे भावस्य प्रध्वस्तस्योन्मज्जनमाविर्भावस्तस्य प्रसंगात् [ ६१.१०] प्राप्तेः ।
३१२
25 स्यादेतन्नित्यं सत्त्वादिप्रसङ्गेन नाहेतुकं वस्तुनामुज्जनम् । न च घटादेर्भावस्य तद्विनाशविनाशोन्वयव्यतिरेकाभ्यां कारणत्वेनावगतोऽपि तु कुलालादिरेव । तत्कथं विनाशविनाशे तदुन्मज्जनमासंज्यमानमभजमानं न स्यादिति । तदे [31] तदवद्यम् । तथाहि घटाभाव
१. किंवा पुनरिति S
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org