________________
३१०
पण्डितदुकमिश्रकृतो
[पृ. ५९. पं. ६.. ननु यदि वस्तुतः कृतकत्वानित्यत्वयोस्तादात्म्यम् तर्हि वस्तुनः कृतकत्वनिश्चयेऽनित्य... त्वमप्यैकात्म्यानिश्चितमेवेति कथमनुमानावतार इत्याशंक्योपसंहारव्याने नाह-तस्मादि[५९.६]ति । यस्मात्तस्यैव वस्तुनस्ता-प्यमवश्यैषितव्यं तस्मात् । दृष्टा अपि भावाः
केनचिदात्मना निश्चितास्तदन्येनात्मना अनुमानतो निश्चीयन्त इति . 5 संबन्धः। दृष्टाः साक्षात्कृता भावाः शब्दादयो धर्मिणः । केनचि[५८.६]त्कृतकत्वादिना रूपेण, किंभूतेन ? तस्मात्कृतकादन्यदकृतकं तस्माद् व्यावृत्तेन । कथञ्चिदभ्यासपाटवादिप्रकारेण तदन्येनानित्यत्वादिना तद्रूपमनित्यरूपं यन्न भवति तस्माद् : व्यावृत्तेन [५९.७] । अनेन व्यावृत्त्यभेदेन व्यावृत्ति(ते)भेंदो दर्शितः । कृतकत्वेनेव
यदि तेनाप्यात्मना ते तदा निश्चेतुं शक्याः कथमनुमानान्निश्चीयन्त इत्याह [५९.८] 10 अनिश्चीयमाना इति । अनिश्चय एव कुत इत्याह । भ्रान्ती[५९.७]ति । भ्रान्ते-. विभ्रमस्य कारणं निरन्तरसदृशापरापरोत्पत्तिरविद्या च तस्य सद्भावात् । ... ... ..
अथ यदि तदानीमनिश्चितरूपेण समं तस्य निश्चितस्य रूपस्य प्रतिबन्धो नावसित- . स्तर्हि कथमसम्बद्धदर्शनात्तन्निश्चयो भवितुमर्हतीत्याशंकायामनुमानं विशिष्टमाह निश्चिते
[५९.८]ति । प्रमाणान्तरतो [५९.८] विपर्यये बाधकात्प्रमाणात् । प्रतिबन्धा- . 15 वसायः पुरोवर्ती पूर्वभावी यस्यानुमानस्य तस्मात् [५९.९] इतिस्तस्मात् तस्य
[५.९:१२] विनाशस्यार्थान्तरनिमित्ततया तन्मात्रानन्वयित्वे ।... __. यस्मादेवंभूताः सत्ता तत्समवायो वा अनित्यता अतएव [५९.१६] कारणात् । आत्मादावेवंभूतसत्तासमवाययोरभावादिति भावः । ....... .....
..अथास्त्वेवम् किं नच्छिन्नमनेन तावद्विशेषणेनास्माभिरतत्स्वभावता [ 30a] विनाशस्या20 ख्याता तावतैव चरितार्थाः स्म इति सौगतमतमाशंक्य. स्वसिद्धान्ताभ्यासव्यामोहापस्मारः परः प्राह-विनाश इति च [५९.१६] इति । इतिविनाशशब्द प्रत्यवमृषति । तेन विनाशशब्देनेत्यर्थः । प्रागभावादिभेदेन भावाभावस्यानेकविधत्वात् विशिनष्टि प्रध्वंसाभावलक्षणमि[५९.१७]ति । कृतकत्वम[५९.१७]पि भवद्भिस्तदात्मकमेव मन्यते ततोऽयुक्तमतत्स्वभावताप्रतिपादनमिति च पुनराशक्य पर एवाह-कृतकत्वमिति तु25 [५९.१७]भिनत्ति मन्यामहे [५९.१७] इत्यभिसम्बन्ध्यते । तथाविधस्य
[५९.२०] प्रध्वंसाभावलक्षणस्य । हेतुमत्ताया [५९-२०] विरोधादनुपपत्तेः । कथं पुनर्विरोध इत्याह स्वयमि[५९.२०]ति । एवं ब्रुवाणस्तदुपपत्त्यनभिधानकारणं दर्शयति। प्रतिपित्सवो[५९.२ ३]ऽनुतिष्ठा सवः । मुरादेः [६०-१] सकाशादुद्गेऽपि तस्य [६०.२] प्रध्वंसाभावस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org