________________
sag
Tg. ५६. पं. १८
स्यादेष्टव्यं वा । इति [ ५६.१८ ]स्तस्मात् हेतोः कृत्तिकोदयस्य हेतोर्यो धर्मः [५६.१८] कतिपयकालात्ययेन रोहिण्युदयोपादानकारणशक्तिप्रबोधाऽऽधानेनान्यथा वा यज्जनकत्वं तदनुमानेन । इत्थंभूतलक्षणाचेयं तृतीया । कल्पयितव्या [ ५६.१८] रोहिण्यासत्ति कल्पनेत्यभिसम्बन्धात्स्त्रीलिङ्गेन निर्देशः । दृश्यत्वविशेषणानवच्छिन्नानुपलब्धिर नुपलब्धि5] मात्रम् [५६.२०] । अभावायोगादि [ ५६.२२]त्यभावविषयत्वायोगादिति द्रष्टव्यं तद्वारेण [५६.२४] विरुद्धोपलब्धिमुखेन । एवं ब्रुवाणः सैव विरोधग्रहणकालप्रवृत्ता दृश्यानुपलब्धिरिदानीं स्मर्यमाणाऽभावसाधनी । तत्स्मारकत्वेन चोपलम्भस्यास्यैकज्ञानसंसर्गिवस्त्वन्तरानवच्छिन्नस्यानुपलब्धिरूपता अत एवोक्तं " प्रयोगः केवलं भिन्नः सर्वत्रार्थो न भिद्यते ( प्र० वा० २.९० ) " इत्यभिप्रैति । अत्र च यथा 10 प्रज्ञाकरगुप्तेन पराक्रान्तं तथास्माभिर्धर्मोत्तरप्रदीपे दर्शितमिति नेहोच्यते । अन्यथा [५६.२५] यदि तद्दारे[29a ] 'णानुपलब्धिप्रयोगो नेष्यते । अनिषिद्धाऽन्यभावे सत्यप्रतिषिद्धाऽनिवारितोपलब्धिर्यस्यान्यभावेपि सा तत्त्वत इत्यर्थः । अभावासिडेर. [५६.२५]भावानिश्चयादभावायोगादिति यावत् ।
३०८
समुदायस्य साध्यत्वात्कथमसौ साध्य इत्याह अवयव [ ५७.५] इति । सम्बन्धय15 न्तरस्यानुपादानात् ।
कस्यासौ स्वभावोsवसातव्य इत्याह साध्येति [ ५७.६] | तन्मात्रादन्वयित्वमपि तस्य सभाव्यते । ततो विशिष्यत इत्याह यो हीति [ ५७.१७] । यदि नाम न व्यभिचारस्तथापि कस्माद्विशेषणं नोपपद्यते इत्याह संभव [५७.२२] इति । परमतमपेक्षतइति परमतापेक्षम् ईक्षिक्षमिभ्यां चे (पा. वा. ४७० ) ति कर्मोपपदे ऽणः । परेपि किमेक्मेषितारो 20 न भवति येन तन्मतापेक्षमिदमुच्यते इत्याह नैयायिके [ ५७.२५]ति । वेगाख्यसंस्कारवता द्रव्येण मुद्गरादिना यः संयोगा [ ५८.४ ]ख्यो गुणस्तस्मादवयवेषु घटादिद्रव्यारम्भकेषु कपालादिषु कर्माणि क्रियाबहुवचनेन व्याभिमुपदर्शयति न तु बहुत्वसंख्यामेव । संयोगस्यैक्ये क्रियाया अप्येकस्या मावात् । यथा वेगवत्सू'च्यादिसंयोगे कुवलयदले आमे वा घटे, तथापि क्रियाप्रणालिकया द्रव्यनाशोऽ2.5 स्त्येवेति । तेभ्यः [५८.४] कर्मभ्यः । अवयवा [ ५८.४]नां तद्व्यारम्भकाणां द्रव्यारम्भकसंयोगप्रतिद्वन्द्वीविभागाख्यो गुण उत्पद्यते । ततो [ ५८.४] विभागात्संयोगविनाशो द्रव्यारम्भकस्थ संयोगस्य विनाशः । ततः संयोगविनाशात् । तेनावयवसंयोगेनासमवायिकारणेन यदारब्धं द्रव्यं तद्विनश्यति । द्वेषा हि द्रव्यस्य नाशो वैशेषिकादिभिरम्युपेयते आश्रयविनाशादसमवायिकारणविनाशाच्च । अत्र चासमवायिकारणस्यास्य संयोगस्य विना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org