________________
-पृ. ५६. पं. १७.] हेतुबिन्दुटीकालोकः ।
१३७ इति वचनाच्च दर्शितः । इति[५४.१३]स्तस्मात्पृथग्नोक्तः [५४.१३] भेदेनि] नोक्त आचार्येणेति प्रकरणात् ।
प्रतिबन्धसिद्धावपि कथं कारणव्यापकानुपलब्ध्योरन्वयव्यतिरेको प्रसिद्धयत इत्याशंक्य एतदेवोपपादयन्नाह तथाही[५४.११]त्यादि । कार्यव्याप्याभावव्यतिरेके सति किंरूपे तस्मिन्नित्याह'तल्लक्षण इति । तत्कार्यस्वभावात्मनि [28b] प्रतिषेधप्रतिषेधस्य विधि-5 रूपत्वादित्यभिप्रायः । व्यतिरिच्यते असंभवति । कथं व्यतिरिच्यत इत्याह । कारणे[५४.१४]ति । अन्यथे[५४.१६]ति यदि तद्व्यतिरेके न व्यतिरिच्यत इति ।
तदनु 'तादाम्यतदुत्पत्त्योरविनाभावव्यापिकयोरिति पुरस्तादुक्तं कथं पुनरधुना, तादात्म्यतदुत्पत्त्योरविनाभावेन व्याप्तयोर्भावादि[५५.२५]त्युच्यत इत्या- 10 शंक्याह कृतमि[५५.२६]ति । उभय व्याप्तित्वादित्यर्थः । प्रागेवोक्तमि[५५.३ ०]ति- अविनाभाववैकल्पञ्चे'त्यादिना पूर्वमुक्तत्वादियुक्तम् । यदि वे[५६.१7त्यादिनोपपत्त्यन्तरमपि दर्शयति । कार्यहेतुप्रसङ्गात्कार्यादप्यन्यदि[५६.१]त्युक्तम् । रोहिण्या रोहिणीनक्षत्रस्य आसत्तिरुदेष्यमाणायाः प्रत्यासन्नता तस्याः कतिः [५६.१ ४] कल्पनाज्ञानमिति यावत् । सापि [५६.१४] तत्कल्पना उक्तत्वादि- 15 [५६.१६]त्येतज्जातीयं प्रत्युक्तत्वेनोक्तमादित्यर्थः । ___कथं पुनस्तस्यास्तदुदयानन्तरमुदयोऽवश्यंभावी संगच्छत इत्याशंक्योपसंहारव्याजेनाह
तस्मादि[५६.१६]ति। नक्षत्रचक्रस्ये[५६.१६]ति कृत्तिकाख्यसप्ततारावृन्दस्येति प्रकरणादवसेयम् । संक्रान्तिः [५६.१६] पूर्वावस्थानदेशात्संक्रमणम् अभिव्यक्त्यवस्थाप्राप्तिर्वा तस्या हेतुरेव कालव्यवधानेने[५६.१७]ति कियत्कालक्षेपेणेति द्रष्टव्यम् 20 कल्पयितव्य[५६.१७]स्तद्धेतुत्वेनेति प्रकरणात् । अनेन तत्रापि प्रतिबन्धसद्भावो दर्शितः। नीडानुपघाते सत्यनुत्रस्तानां गृहीताण्डानां पिपीलिकानामेकदिगभिमुखानां सञ्चरणं दृष्ट्वा यद्वर्षानुमानं तदप्यसति प्रतिबन्धे न घटते तस्मात्तत्रापीयमेव गतिरिति दर्शयितुं यथे[५६.१७]तिना दर्शयति । इतरथा विवादाध्यासितसत्त्वादस्य कथं दृष्टान्तरूपतोपपद्येत। भतानां [५६.१७] पृथिव्यादीनां संक्षोभो[५६.१७]ऽवस्थाविशेषः । य एव 25 तथा तपीपिलिकासंक्षोभहेतुः स एव कतिपयकालव्यवधानेन पश्चात्कालभाविनो वर्षस्य हेतुरित्यर्थोऽथादृष्टव्यः । कारणकारणतया च हेतुर्द्रष्टव्योऽन्यथा चिरातीतं कारणमिष्टं . १. तद्रावलक्षणे-S.... ........ ....... २. कृतकत्वा-S
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org