________________
-
पण्डितदुर्वेक मिश्रकृतो
[ पृ. ४८. पं. २२
क्षणत्वेनेष्ट इति न सर्वत्र तथाभावप्रसङ्ग इति । अन्यथा व्याख्यानं त्वभावशब्दस्य दुर्योज्यत्वात्साहसमिती नानूद्यतेपि । एतन्निषेधयन्नाह । अयुक्तेति । हेतुमाह तदिति । तेन भावाभाववता पूर्वोत्तरकालेन वस्तुनाऽसंबन्धादविद्यमानसम्बन्धत्वात् । अयमर्थो विशेषणं व्यवच्छेदकं भवति । तत्र केन संबन्धेन तथाभूते च वस्तुनि समवायमिममव5 च्छित्रो (च्छितो) येन तद्विशेषणं स्यात् । एवमेव च तथात्वे सर्वं सर्वस्य विशेषणं स्यादिति ।
३०४
ननु विशेषणविशेष्यभाव एव 'सम्बन्धः । न च सम्बन्धेन सम्बन्धान्तरानुसरणं श्रेय इत्याशंक्याह निरतिशयस्येति । निष्क्रान्तोऽतिशयो व्यवस्थितरूपाद्विशेषो यस्मान्नितो वातिशयात् । तस्य केनचिदतिशाययितुमशक्यस्येत्यर्थः । नित्यत्वाच्च निरतिशयत्व10 मिति बुद्धिस्थम् ।
एवं ब्रुवाणश्चैवमभिप्रेति विशेषणेन तावदतिशा'य नावश्यभाव्यमन्यथा सर्वं सर्वस्व विशेषणमापद्येत । तत्रानित्यस्य कश्चिदतिशयमादधत् किञ्चिद्भवेदपि विशेषणम् । यदि तत्रापि सोऽतिशयः किं ततो भिन्न उताभिन्नः, यदि भिन्नस्तस्य किमाया तमथाभिन्नस्तस्यैव तर्हि करणमा पतितमिति कश्चिन्न पर्यनुयुञ्जीत न तु पूर्वापरकालयो 15 रविचलित तद्रूपस्य नित्यस्येति । संप्रति ते यद्यवश्यं विशेषणे अस्यैष्टव्ये इति निर्बन्ध'स्तद्वैतत् युक्तरूपमित्युपग गर्भमुपदर्शयन्नाह तयोरेव वेति । वाशब्दोऽभ्युपगतं पक्षान्तरं दर्शयति । तयोरन्वयव्यतिरेकानुविधापनान्वयव्यतिरेकानुविधायिनोस्तद्विशेपाणयोस्तत्समवायविशेषणत्वेना 'भिमतयोस्तल्लक्षणता कार्यकारणलक्षणताऽस्तु । तयोरेव प्रमाणोपपन्नत्वादितरस्य च तद्वाधितत्वादित्याशयः । इतिरनन्तरोक्तं प्रत्यवमृषति । 20 एवमभिप्रायवता वार्तिककृतेति प्रकरणात् । अग्नीन्धनाद्येव सामग्रीत्यन्तनितनियमः समासः कर्तव्योऽत एवामूं नियममसहमानस्य भिन्नसामग्रीवादिनो मतमाशक्य तन्निरा कुर्वन्नाह न चेति । अन्यथा कुतोऽस्य प्रत्याख्यानग्रन्थस्योत्थानं स्यादिति । स्वरूपत एवापर सामग्रीनिरपेक्षेणैव रूपेण । कार्ये [ ४८.२६ ] जनयितव्ये यतः [४८.२६] शक्तिव्याघातात् । अन्यत्रे [ ४८.२६ ]ति निपातोऽन्यवचनोस्ति तेनान्यदित्यर्थः । 25 सामग्रयपि जनयन्ती किं सामग्रयन्तरसव्यपेक्षा जनयत्यथानपेक्षा । यदि [ 21b] साम'प्रयन्तरसापेक्षा तर्हि सैवान्वयव्यतिरेकाभ्यां जनिका स्यादाद्यसामग्रयास्तु जनकत्वं हरीतकिं प्राप्य देवता रेचयन्तीत्यनेन तुल्यं स्यात् । अ (य) द्यनिरपेक्षा तद्वदभावोपि स्वहेतुलक्षणसामर्थ्यस्तनिरपेक्ष एव किं न जनयतीत्यपि दूषणमिह द्रष्टव्यम् । न च सामग्री ततो भेदेनोपलभ्यते। न चास्या अनुपलब्धिलक्षणप्राप्तता युक्तेत्याद्यपि पूर्ववदुष्टव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org