________________
३०२
पण्डितदुर्वेक मिश्रकृतो
[पृ. ४७. पं. २६कारणभाव एव सम्बन्ध इत्याह कार्ये [ ४७.२६]ति । तद्भावस्य [४७.२७] कार्यकारणभावस्य भिन्न—स्य कल्पितस्य ततोऽसहभावित्वात् । कार्यकारणकाले [ ४७.२७] कार्यकारणभूतवह्निधूमादिवस्तुकाले । तयोश्चैककालिकत्वं कुतो येनैकजनकत्वं स्यादिति । अत्र गजनिमीलिकां कृत्वैतदुक्तं द्रष्टव्यम् । स च [ ४८.३] कार्यकारणाध्यवसायः । 5 भवत्वसौ कल्पितविषयस्तथापि भिन्नसम्भवः कथं न भवेदित्याह - 'कल्पिते [४८.४ ]ति । तदूव्यवसायस्य कार्यकारणताऽव्यवसायस्य । तस्य [४८.४] भिन्नस्य कार्यकारणभावस्य । माभूत्कल्पितविषयोयं तदवसाय इति हि तस्य कल्पना स चेत्तथाविध ऐषितव्यः किं तेनेति भावः किं कल्प्यमानोसौ तद्भावः किं कार्यकारणभावाभ्यां सहिताभ्यां जन्यते आहोस्विदे 'कैकेनेति पक्षयोराचं पक्ष क्षपयन्नाह कार्येति [ ४८.५] । 10 कार्येण जन्यमानः कार्यभावः स्यात् । कारणेन जन्यमानश्च कारणभाव इत्यभिप्रेत्य कथम [ ४८.६ ] त्याह । प्रत्येकजन्यमानतायामपि कारणमुद्दिश्य निरूपयन्नाह - यदा चे[४८.६]ति । पश्चा[४८. ८ ] च्छब्दापेक्षया तु स्वकार्यस्येति वि'भक्तिविपरिणामेन योज्यम्। अ’तसर्थप्रत्यययोंगेनषष्ठी प्राप्तेः । तत्तस्मादुभयोः [४८.९] कार्यतद्भावयोः ।
नन्वेकसामग्रयधीनतैवानयोः सम्बन्ध इति कथं परस्परासम्बन्ध उच्यत इति चेत् । 15 न, कार्येणापि सममस्य कार्यकारणभावस्य संबन्धस्य प्रकृतत्वात्सूक्तमिदम् । एक सामग्रयधीनतेष्टौ च तदुत्पत्तेः पूर्वं कारणं न कारणं स्यात् । त्वन्मते तद्योगात्तदव्यवस्थितेययमप्राप्तत्वादिति दोषो द्रष्टव्यः । कार्यस्य धूमादेः क्रिया [ ४८.११] करणं कथम् । तदपेक्षं [४८.१३] तद्धूमादिक्रियापेक्षम् । अस्य[४८.१२]वढ्यादेः असत्त्वान्मा स्म तज्जनयत, का नो हानिरित्याह तद्भावश्चे [ ४८.१५]ति । तद्भावः कार्यकारणभावः 20 संबन्धः । कारणाभावादनुत्पन्नश्च (न्नाश्व) शशविषाणा यथा नः (न) कथं तद्भावसम्बन्धो भवितुमर्हतीत्याशयः । संप्रत्यक्षणिकपक्षमभ्युपगम्याह- अक्षणिकत्वेपीति । प्रत्ययहेतुः कार्यकारणबुद्धिहेतुर्वा नातिवर्तते । यदि हि तदाश्रितं स्यात्तदा तत्र तथाविधं बोधं विदध्यादन्यथाऽसति विप्रकर्षाभावात्सर्वत्र तद्बुद्धिं जनयेनो वा क्वचिदपीति भावः । इदं पुनरत्र साधु दृश्यते । अयं खलु कार्यकारणभावः कार्यकारणयोर्वस्तु नोर्वर्तमानो नांशेन 25 वंशदण्डवद्वर्तते अखण्डरूपत्वात् । कार्याभावः कारणाभाव इति प्राप्तेरनेकरूपतापत्तिप्रसक्तेश्च । प्रत्येक[26b]'रूपकार्यत्वेन वर्तमानश्च यथाकार्यकारणयोः कार्यकारणबुद्धी जनयति तथा प्रत्येकं जनयेत्। सति चैवं वहावेव धूमापेक्षयैव कार्यकारण बुद्धी प्रसज्येयातां . तथा धूमेपि तद्वह्रयपेक्षयैव कार्यकारणबुद्धी प्रसङ्ग (सज) तः । मा स्म वा कार्यकारणयोरपि ३. षष्ठ्यतसर्थप्रत्ययेन ( पा० २. ३. ३०. )
1
१. सद्भावं S २ तस्या s । ४. ' कारणभाव ' इत्यपि पठ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org