________________
३००
पण्डित दुकमिश्रकृता
[ पृ. ४६ पं. ६च। उत्तीर्यतेऽनिष्टपक्षादनेनेत्युत्तरमेतत् । बीजादिभावे नियतसन्निधेरित्यादौ पुनश्चोद्ये [४६.६] च_परस्य स एव बीजादिभेदानुवि धानादित्याद्यनंतरोक्तोऽस्माकं परिहार: [४६.६] परचोंद्यप्रतिविधानम् । अनवस्था [ ४६.६ ] चानन्तरं व्याख्यातेति । एतेने[४६.६ ]न्धनादेः स्वहेतोरेव वृक्षादेर्भावदर्शनादिति वचनसामर्थ्यात् यस्य यस्माद्भावो 5 दृश्यते तस्य तत्कारणत्वमिति प्रतिपादितेन । यस्या एव सामग्र्या अग्नीन्धनादेरुत्पत्तिस्तस्या एव तद्दृश्यत्वमुपजायत इति । एकसामग्रथधीनता [४६.७]तयोर्नियतसन्निधाननिमित्तं सापि प्रत्युक्ता प्रत्याख्याता कस्यचिद्भावे विज्ञायमानस्यैव तत्कार्यत्वव्यवस्थासिद्धेः । तद्भावेऽनुपलभ्यमानस्य तु तत्कार्यत्वकल्पनायामतिप्रसंगादिति भावः । अत्रैव वक्तव्यान्तरं समुत्तिन्वन्नाह तदि[ ४६-७ ]ति । तस्यादृ' श्यस्यान्वयव्यति10 रेकानुविधानात् [ ४६.७] । तद्[ ४६.८]दृश्यम् । तच्चा [४६.८]न्वयव्यतिरेकानुविधानम् । निमित्ताभावमेवावेदयन्नाह कार्येति [४६.१०] । सत्खन्येषु कारणेषु समर्थेषु कार्यमभवत्कस्त (वत्त ) दुत्पत्तौ कारणान्तरमपेक्षणीयं प्रतिपादयति । न तु भवे (व) देवेति समुदायार्थः ।
संप्रति स(त)त्कारणत्वमुपेत्यापि' नास्मत्प्रतिज्ञातस्य काचित्क्षतिरिति प्रतिपादयितुमाह 15 रूपन्त्विति (भवत्विति) [४६.१२] । येतो [ ४६.१४ ] वयादेः कारणत्वहानेः अग्न्यादेरन्यस्यापि भावः [भावे ] धूमं प्रति कारणत्वेन कथं न अग्न्यादेः कारणत्वहानि: [४६.१४]। कथञ्च तन्निश्चयेन प्रवृत्तौ न विसम्वाद इत्याशंक्याह तस्य (?) । अभ्युपगमनीयदृष्टान्तद्वारेणामुमर्थं द्रढयन्नाह नही [ ४६.१५]त्यादि । दृष्टस्य कारणस्य हानमभावो न ह्यकारणत्वेन प्रतीतस्य कारणत्वहानिरित्यर्थः । तस्य दृष्टकारणस्य कार्ये तद्दर्शनात् 20 [४६.१६] । अतत्प्रासि[ ४६ - १६ ] दृष्टकारणाप्राप्तिः प्रसज्यत आपद्यते अनेनेति प्रसङ्गापादनमतिशयितः प्रसङ्गोऽतिप्रसंगस्तेनालं [ ४६.१६] न किञ्चित् । ननु च तद्भावे भावस्तदभावेऽभावश्च [25] ] ] कार्यधर्माविमौ तत्कथमयमेव कार्यकारणभाव इत्युच्यते । कार्यभाव इति तु युक्तं वक्तुमिति । सत्यमेतत् केवलमेतस्मिन्कार्यधर्मे कथिते कारणधर्मोपि स्वभावे भावो भावनं भावो भावयितृत्वं सत्तयाऽभिसम्बन्धयितृत्वं स्वाभावे चाभावोऽभावनम25 भावयितृत्वमनुत्पादयितृत्वं यत् तल्लक्षणः सुज्ञानो भवतीत्याचार्येणैव 'मुक्तमनेनाप्येवं व्याख्या
१. अत्र ' यतो वह्वयादेः कारणत्वहाने: ' एतावान् पाठः अग्रे ' विसंवाद इत्याशङ्कयाह एतदनन्तरं संगच्छते । प्रमादात् प्रागायातो भाति ।
२. अग्रेतनं ' तस्य ? ' इति शंका चिह्नितं पदं अत्रत्यं भाति । तथा च 'तस्य भावे इति वृद्धावे ' [४६.१३] इत्यस्य विवरणम् ।
“
Jain Education International
7
For Private & Personal Use Only
www.jainelibrary.org