________________
२९६
पण्डितकमिभकतो . [पृ.४२ पं. १२अथ किं कल्पनानिवेशिनः कृतकत्वादयो धर्माः . साध्यधर्ममवबोधयन्ति येनावश्याभ्युपगमनीत्याया(नीयाया) उत्पत्तिविनाशधर्मताया एव तथाविधबुद्धिनिबन्धनत्वात् किमन्येनेत्युच्यत इत्याशंकायामभ्युपगम [23 b] 'एवोत्पत्तिर(वोत्तर)मित्यभिप्रायवानाह तथाही [४२.१२]त्यादि । सत्तामात्रेण [४२.१२] तन्निश्वायकज्ञाननिरपेक्षेण स्वरूपेण 5 वस्तुन उत्पत्तेः प्रभृति सर्वदेति वेदितव्यम् । अनवरतं [४२.१४] सततं तद्धर्मस्य
साध्यधर्मस्य प्रतीतिस्तस्याः प्रसङ्गात् [४२.१४] । कथं नाम ते तत्प्रतीतिनिबन्धनं भवन्तीत्याह किंत्वि[४२.१४]ति । ननु वस्त्वसंस्पर्शित्वे विकल्पस्य कथं वस्तुनः कृत . कत्वादिरूप ताप्रतीतिरित्याह स चे[४२.१५]ति । चो यस्मादर्थे । तपस्य
[४२.१७] कृतकत्वादिरूपस्य वस्तुनोऽसंस्पर्शेप्यग्रहणेपि । तदग्राहिणः कथं तदध्य10 वसाय इत्याह परम्परये[४२.१७]ति। तदुपादानत्वात्[४२.१८]कृतकत्वात्कृत
कत्वादिरूपबाझोपादानत्वात् । तस्य विकल्पस्येति प्रकरणात् । ननु च न कृतकत्वादयो धर्मास्तथाविधबुद्धिनिबन्धनत्वेनेष्यन्ते किन्त्वर्थक्रियाकारितया, तत्कथं तथाविधविकल्पः स्याद्यतः प्रसवेत् (विकल्पस्य ततः प्रसवः)। तस्य तस्य धर्मस्य वैयर्थ्यमित्याह तद्व्यति
रिक्तास्त्वि[४२.१८]ति । तु शब्दो यस्मादर्थे । तस्मादभूत्वाभवनधर्मणो भूत्वा 15 चाभवनधर्मणो धर्मिणो व्यतिरिक्ता अन्ये तस्याः कल्पनाबुद्धेरुत्पत्तिस्तस्या
निमित्तं केवलं निमित्तमात्रम्[४२.१८] तद्भावस्तया । एतदुक्तं' भवति यदि कृतकत्वादि(दिः) धर्मिणोऽन्यो न स्यात्तर्हि कृतकादिबुद्धिरनुभवसिद्धा निर्निबन्धना स्यात् । न चैवमतोऽस्त्येतद्बुद्धिकारी कृतकत्वादिति(दिरिति) तत्कल्पना। ततश्च तन्मात्रकारित्व(त्वं)
परिकल्पनीयं साधीयः । तथापि तथाविधाद् भावादन्ये ते तन्निबन्धनं कल्प्यंतामित्याह 20 तदरमि[४२.१९]त्यादि। यस्मादेवमनन्तरोक्तं तत्[४२.१९]तस्मात् । तस्य कृत
कत्वादेर्या कल्पना । 'अत्रैवेदं कृतकत्वादि नाऽऽत्मादिषु' इत्येवंरूपा तस्या यन्निबन्धनमभूत्वाभवनधर्मतादि तदेव तथाविधविकल्पप्रसवनिमित्तं वरमस्तु [४२.२०] । हेतुमस्यानिष्टेराह तस्ये[४२.२०]ति । अस्तु तदभ्युपगमस्तथापि कथं तस्य वैयर्थ्यमित्याह ।
तदभ्युपगमे चे[४२.२१]ति। चरितार्था [४२.२१] अन्येन निष्पादितप्रयोजना 25 व्यतिरेकवन्तः [४२.२१] तद्व्यतिरिक्ताः कल्पनानिर्मितास्तु ते संतु । तत्र [न]
काचिद्वाति चात्सूचितम् । ___ स्यादेतत्-यदि व्यतिरिक्तानित्यतादिधर्मयोगेपि वस्तुन एवावस्थायित्वादिरूपं व्यवहर्तारः प्रतिपादयन्ति, तदा तस्य भूत्वाभवनधर्मताद्युपगमे तदुपगमे च तस्यै
तद्बुद्धिनिबन्धनत्वस्य युज्यमानत्वाञ्चरितार्या व्यतिरीकणो धर्मा त भ(धर्मा भ)30 वेयुर्यावता व्यतिरिक्तानित्यतादिभावे तदेव व्यवहारः प्रतिपद्यन्ते । तत्कथं यदेव
तत्कल्पनानिवन्धनमित्यायुच्यमानं परभागं पुष्मातीत्याशंक्याह अवश्य[४२.२२]ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org