________________
पृ. ४२. पं. १२. ] हेतुविन्पुटीकालोकः।
२९५ .. आत्मा () साध्यसाधनभावो [४ १.२०] गम्यगमकभावः । कृतकत्वादौ पारमार्थिकं [४१.२४] साध्यसाधनयोधर्मिणश्चभेदं [४१.२ ४] भिन्न रूपं नालम्पति] नाश्रयते । कुतो नालम्बत इत्याह सम्बन्धे[४१.२५]ति । परमार्थभिन्नानामकार्यकारणभूतानां सम्बन्धाभावे तथात्वाभावप्रसंगात् । एकस्मिन्नर्थे द्वयोः समवाय एकार्थसमवायो[४१.२६]ऽत्र विवक्षितः कृतकत्वानित्यत्वे [४ १.२६]आदी 5 यस्य तस्य । कृतकत्वमादिर्यस्य सावयवत्वादेः साधनधर्मस्य । अनित्यत्वमादिर्यस्य' सावयवत्वादेः साध्यधर्मस्य । तस्ये[४१.२७]ति समवायस्य । अत्रैवोपचयहेतुमाह समवायादि[४२.२]ति । 'आदि[४२.३]शब्दादाकाशदिक्कालमनःपरमाणूनां संग्रहः । कथं पुनः कृतकत्वादः शब्दादौ वृत्तावात्मादिवृत्तिरासंज्यत इत्याह । य एव ही[४२.३ति । तस्य [४२.५] समवायस्य । “न च संयोगवन्नानात्वं भाववल्लिङ्गा- 10 विशेषात् विशेषलिङ्गा भावाच तस्माद्भाववत्सर्वत्रैकः समवाय" [प्रश० भा० १७२ पृ०] इति वचनादेकत्वेनाभ्युपगमः। अथापि स्यात् न समवायाद्वृत्तिरपि तु समवाय एव वृत्तिरिति तदप्यवद्यम् । संबन्धाभावेन भावोयं वृत्तिरिति कल्पनाया अयोगात् । संबन्धान्तरकल्पनायाञ्चानवस्थाप्रसंगात् । यदि च समवायस्तस्य वृत्तिरात्मादिष्वपि तस्य भावात् कथं न तस्य वृत्तिरिति तदवस्थो दोष इति । अथ[४२.६]शब्दः पक्षान्तरमवद्योतयति । 15 एतस्मिन्नुपगमे गड्डप्रवेशेऽशितारानिर्गमवृत्तान्तो जात इति दर्शयन्नाह सैव तहीं[४२.८] ति।
अभूत्वा यो न भवति मृत्वा च [न] विनश्यति स तद्विपरीतरूपस्तस्य यः समारोपस्तस्यव्यवच्छेदः स विषयो [४२.९यस्यास्तस्याः । सा किमवश्याभ्युपगमनीया येनान्यस्योपगमो निषिध्यत इत्याह सैवेति [४२.८] । परमार्थेन भेदो 20 धर्मिणा सहेत्यर्थात् तद्वतोः परमार्थभेदवत्त्वञ्च पराभिप्रायेणोक्तं द्रष्टव्यम् । धर्मिणि [४२.११] शब्दादौ । तद्धर्मतानपेक्षायान्तु नित्याभिमतेष्वपि तौ वर्तेयातामिति भावः । उत्पतिविनाशधर्मतायाः कल्पनाबुद्धेश्चान्तराले घाटामस्तकान्तरालवर्तिमांसपिण्डापरनाम गडरिव. गडु[४२.११]निष्फलत्वात् सेन । व्यतिरेको भेदस्तद्वता [४२.१२] ।
अयममिसन्धिः । यदि कृतकत्वादयो धर्मा व्यतिरोकिणस्तव धर्मिणि प्रमाणसिद्धाः 25 स्युस्तदा सत्यामपि तस्य वस्तुनस्तथातायामजागलस्तनवदनुपयुक्ता अपि केन नाम नाभ्युपगम्येरन् । वस्तुस्वभावाना मपर्यनुयोज्यत्वात् । केवलं तदेव प्रमाणसिद्धत्वं न संभवति प्रत्यक्षप्रमाणबाधितत्वमेव लक्ष्यत इति । . १ पूर्वत्र शंकाचिह्नित — आत्मा (१) ' इति पदं भवत्यं सम्भवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org