________________
२९४
fusage मिश्रकृतो
[ पृ. ४० पं. ६
कालभाविनः संशयस्यानुमानतो निरासांत्तस्य तथात्वमुच्यते । तर्हि प्रत्यक्षस्यातिशयेन तद्वाच्यम्, तत्संशयोनो (यानु ) त्पादस्य प्रत्यक्षनिबन्धनस्य बहुलमुपलम्भात् । अथ तदा तत्प्रत्यक्षं गृहीतग्राहितया न प्रमाणव्यपदेशयोग्यं सत्सशयं निरस्य ेति अनुमानमपि तथैवेति किमनेनोक्तेन ? न च क्षणिकत्वादि प्रत्यक्षस्य विषयो येनानुमानतस्तान्निश्चयात्प्राधान्यं तस्य कल्प्येतेत्यलं बहुना । प्रत्यक्षस्यापि पटुनः प्रवर्तकत्वात्किं न प्राधान्यं नहि योग्यता योग्याद्वस्तुनोऽन्या या परोक्षा सती तेन निश्चेतुमशक्याऽन्येन निश्चीयेत तन्निश्चायकं तज्ज्ञानमन्यत्प्रमाणं सदनुमानं स्यात् । किन्तु योग्यमेव वस्तु योग्यता, यथा च प्रत्यक्षस्यार्थस्यैकप्रकारा प्रतिपत्तिस्तथाचार्येण स्वयमेवान्यत्र दर्शितम् । अथ यद्यपि योग्यता योग्यवस्तुस्वभावा तथापि परोक्षफलसव्यपेक्षा परोक्षेति । ननु फलस्य परोक्षत्वे सा किं 10 परमार्थतः परोक्षा किं वा परोक्षकल्पा ? तत्र यदि परोक्षंमते (?) परोक्षैव तदा प्रत्यक्ष परोक्षयोरेकात्मतानुपपत्तेर्भिन्नैव स्यात् । यथा मीमांसकानां कार्यार्थापत्तिसाधना । अथ परोक्षैव; कथं पुनः प्रत्यक्षस्वभावा परोक्षैव । तन्निश्चयस्य कर्तुमशक्यत्वादिति चेत् । यदि नामाभ्यासात्पूर्व निश्चेतुमशक्या तथाप्यभ्यासदशापनेन पटीयसा प्रत्यक्षेण स्वतोऽपसारितम्भ्रान्तिनिमित्तेन किं न निश्चीयते ? फलमपि तस्य दाहादि नात्यन्तपरोक्षमन्यत्र तत्कृतस्य तस्यानेकशोऽ15 नुभवात् । अत एवाभ्यासेन तत् पटुतरं जातम् । नत्वमभ्यु ( न तु अभ्युदयादि दानचेतनादिकार्यत्वेन निश्चितं केनचिद्येन तत्राप्यभ्यासात्तथानिश्चयः स्यात् । यावतात्यन्तपरोक्षमेव । अतस्तदपेक्षया दानचेतना 'शक्तेरनिश्चयो युक्तः । तदयमर्थो येनासकृद् वह्नयादेर्दाहानुभूतं स तदा फलस्य परोक्षत्वेपि दाहादिजननयोग्यमेतदिति प्रत्यक्षेण निश्चिनोत्येव । यथा चानभ्यासावस्थायां पुंसः कृत्रिमाकृत्रिममुक्तादिप्रतिपत्तेः परोपदेशापेक्षणा20 स्वतोऽसंभवेपि सत्यप्यभ्यासे स एव पुरुषः पुरुषान्तरनिरपेक्षो मुक्तादेः कृत्रिमादिरूपतां स्वयमेव प्रतिपद्यते । तथानभ्यासावस्थायां स्वतस्तद्योग्यताऽनिश्चयेपि अभ्यासादितः पटिमप्रत्यक्षं स्वयमेव तद्योग्यं निश्चाययिष्यतीति किं नानुमन्यते । आह चात्र भर्तृहरिः “ मणिरूप्यादिज्ञानं तद्विदां नानुमानिकम् " इति । किञ्च न व्याप्तिस्मरणमन्तरेणानुमानं प्रवर्तते । न चान्यादि वस्तु दृष्ट्वा 'तत्साध्यार्थक्रियावान् छया प्रवृत्तौ यद्यदेवमर्थ25 क्रियाकारि यथा महानसादि दृष्टं तद्वस्त्विति प्रवृत्तौ (ते) प्राग्व्याप्तिस्मरणं सत्यवादिना वदितुं शक्यत इति कथं तत्रानुमानस्य प्रवर्तकत्वकल्पना न साहसम् । अतश्चैवं यतस्ताद्रूप्यावसाये प्रत्यक्षं नानुमानसापेक्षमनवस्थाप्रसक्तेः । यथा च तस्य पाटवं ताद्रूष्यनिश्चय[23a] 'चरितार्थमुपवर्णनीयम्, तथा योग्यतानिश्चये किं न वर्ण्यत इत्यलमतिविस्तरेण । यत्तु तच्चानुमेयतां नातिपतति [ ४०.१९] तत् स्वपरसंतानवर्तिनीर्बुद्धीरधिकृत्यो30 क्तम् — अन्यत्रानुभूतविषयेभ्य इति वचनादिति । अत्र च सर्वत्र समाधानं धीमद्भिरेव विधेयम् ।
"
5
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org