________________
पृ. ४०. पं. ६.]
हेतुबिन्दुटीकालोकः ।
२९३
प्रकरणात् ‘पूर्वेणाभिन्नयोगक्षेमत्वादि' ति हेतुरनैकान्तिक इत्याख्यायते । तदा 'नाने कान्तः स हेतुरिति प्रकरणात् । विपक्षगमनाभावादिति भावः । अथे [ ३७.२३ ]ति पक्षान्तरमुपक्षिपति। संव्यवहारः प्रवृत्तिनिवृत्तिलक्षणमनुष्ठानं प्रयोजनं येषां तान् [३७.२३] । परमार्थतो भेदकारणमुक्तमन्यान्यकारणतये [ ३८.५ ]ति । तत्राद्य एव प्रमाणम् । न सम्यञ्चोऽपि पराश्वः प्रत्यया इति समर्थयितुं तथाही [ ३८.८. ]त्यादिनोपक्रमते । 5 तत्साधन[३८.८]मर्थक्रियासाध [22] नं तस्य प्रापणं तत्र समर्थे [ ३८.९] । 'अक्कीवाऽविद्यमानविप्लवा धी[ ३८.१०. ]र्येषाम् ते तथा तेषां प्रेक्षापूर्वकारिणामित्यर्थः अर्थस्य क्रिया निष्पत्तिस्तस्याः साधनं निष्पादकं तस्य भेदोभिन्नत्वात् । संधुक्षण [३८.१६. ] संदीपनमादिशब्दात्पवनस्वेदनादिपरिग्रहः ।
यद्येवमि[३९.१८]त्यादि यच्चोद्यम् । तथाही [ ४०६ ] त्यादि
10
प्रत्यक्षं प्रमाणमभ्रान्तमित्युक्तं भवतीति वक्तव्यम् । अनन्तरोक्तादेव कारणकलापात् । प्रत्यक्षलक्षणानुक्तौ च प्रत्यक्षस्यैवानभिधाने परोक्षप्रतिपत्तेः सर्वस्या अनुमानेऽन्तर्भावप्रदर्शनेपि कथं प्रमाणद्वैतमाख्यातं भवति ? दर्शनमेव प्रमाणमित्याख्यानाच्च नाज्ञानमिन्द्रियादि प्रमाणमिति दर्शितं भवति । भिन्नायास्तु प्रथमायाः कथमपाकरणम् ? किं च मुख्यवृत्त्या यदुद्दिश्य शास्त्रं प्रवर्तते तदर्थं तदुच्यते । न तु सामर्थ्यानुषंगतो वा यद् व्युत्पादयति 15 तदर्थं तदुच्यते । नच प्रत्यक्षव्युत्पादनाभ्युपगमेपि मुख्यवृत्त्या तद्व्युत्पादने प्रवृत्तमिदमिति कथं सामान्येन सम्यग्ज्ञानव्युत्पादनार्थमुच्यते । अन्यथा अनुमानव्युत्पादनार्थत्वेपि तस्य सामर्थ्यादनु' मानाभासप्रतिपादनमनुषङ्गतो विकल्पस्य धारावाहिनाञ्च पराञ्चा ( पराचां ) विकल्पज्ञानानां प्रमाणाभासत्वप्रतिपादनमस्तीति अनुमानतदाभासव्युत्पादनार्थमिति प्रमाणाप्रमाणव्युत्पादनार्थमिति वा किंनोच्यते यद्य ( यद) प्यन्यत्सम्यग्ज्ञानव्युत्पादनार्थमभिप्रेतम्, 20 तत्रापि कल्पनाप्रवृ( भृ )तेर्मिथ्याज्ञानस्यापि प्रसंगतो व्युत्पादनमस्तीति तदपि सम्यग्ज्ञानव्युत्पादनार्थमिति किं नोच्यत इति यत्किञ्चिदेतत् । तथा यद्यनुमानतस्तथाभूतस्य निश्चयात्तस्य प्राधान्यमुच्यते, तदा प्रत्यक्षतो धर्मिग्रहणं व्याप्तिग्रहणञ्चान्तरेण नानुमाने प्रवृत्तिरस्तीति तस्यापि किं न प्राधान्यमुच्यते ! न च तस्यापरभावात्प्राधान्य कल्पना ज्यायसी । किञ्च तदपि तत्त्वे निश्चायकमनुमानं समस्ततत्त्वनिश्चायकसाक्षात्कारप्रवृत्त - 25 प्रत्यक्षाङ्गमुपसर्जनम् । तदेतभूयेयं (?) प्रधानं भवितुमर्हतीति कथं विपर्यस्तास्तत्त्वविदः ।
अपि च स्वसंवेदनं प्रत्यक्षमन्तरेण सर्वथा न कस्यचित्तत्त्वव्यवस्थानमिति तस्यैव प्राधान्यं किं न कल्प्यत इति । स हि मिथ्याज्ञानं प्रत्यक्षस्य विषयो [22b] 'यत (त्र) तेनानुरूपो निश्चयो जनितः न च तत्र विवादः संभवति येनानुमानात्तनिश्चयः पार्थ्यते । अथोत्तर१ ' अक्लीवधियां ' इति आलोकसंमतः पाठः । ' अविक्लवधियां ' इति S
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org