________________
२९२
पण्डितदुवेकमिश्रकृतो [पृ. ३७ पं. १८त्यादि । भगवताम् [३७.१८] अध्यक्षचेतसां नानायो[21b] गक्षेमत्वात् [३७.२१]। पृथगेव प्रामाण्यमिति शेषः प्रकरणलभ्यं वा । अधिकरणे चेयं षष्ठी। तेन भगवत्सम्बन्धीनि यान्यध्यक्षचेतांसि साक्षात्कारप्रवृत्तानि ज्ञानानि तेषामित्यर्थः । किंभूतानां
भगवतामित्याह सर्वे[३७.१९]ति । सर्वभावान् भावनाबलजेन ज्ञानेन प्रतिक्षण5 मीक्षमाणानां [३७.२०] पश्यताम् । कथं तेषां . नानायोगक्षेमत्वमित्याह
तद्विषये[३७.२०]ति । तेषां भगवत्सम्बन्ध्यध्यक्षचेतसां [३७.२०] ये विषयाभिन्नाः क्षणास्तषां भिन्नास्वर्थक्रियासूपयोगतो [३७.२१] व्यापारात् । अनेन विषयस्य तथात्वाद्विषयिणस्तथात्वमुक्तमवसेयम् । कस्मात्पुनस्ते प्रतिक्षणं भावान्वीक्षन्त
इत्याह-कश्चिदेवे[३७.१८]ति । इतिः [३७.१९] हेतौ । अनुग्राहकविबन्धकानु10 रूपमाचरितुमित्यर्थादेव स्थितम् ।
ननु तथापि सिद्धार्था भगवन्तः स्वार्थमणी यांसमप्यपश्यन्तः कस्यचित् क्षणस्य कस्यचित्प्राणिनोऽनुग्राहकत्वे विबन्ध[क]त्वेपि कस्माद् भावान् प्रतिक्षणं वीक्षन्त इत्याशंक्यतेहे(क्य हे)तु भावेन भगवद्विशेषणपदमाह परहिते[३७.१७ति । परस्मै हितमायति
पथ्यं तस्याधानं करणम् । तस्य दीक्षा अनुष्ठेयमेवैतदिति नियमस्तद्वताम् । नित्ययोगे 15 चायं मतुप्' । ज्ञानमेव सदसद्विवेककरणादालोक इवालोकस्तेनावभासित उद्योति
तोऽन्तरात्मा येषान्तेषाम् [३७.१८] । अन्तरात्मेति लोकभाव(न)योक्तं परमार्थ(त)स्तु तथाभूतज्ञानावलोकवतामित्यर्थः । __ अशब्दविषये प्रथने वाच्ये वेः परास्तृणातेजोऽभावाद्वस्तुविस्तर इत्यसाधुरयं
प्रयोग इति चेत् । तत्तु नातिश्लिष्टम् । यतः सूत्रे प्रथनं विस्तीर्णत्वमभिप्रेतम् । 20 तदाह काशिकाकारः " प्रथनं विस्तीर्णता " इति । न चात्र विस्तरशब्देन वस्तूनां विस्तीर्णत्वमभिप्रेतमपि तु बाहुल्यं यथा तृणस्य विस्तर इत्यत्र । अतएव “प्रथन इति किं? तृणविस्तर" इति प्रत्युदाहृतम् । अस्य चार्थं भागवृत्तिकारोपि अञ्जसा ऽव्य(सा व्या)जीत् "तृणस्य विस्तरो बाहुल्यम् इत्यर्थः " । तत्कथमप्रथने वर्तमानादस्माद्धातोर्घञ् भवितुमहतीति । अतएव प्रज्ञाकरगुप्तोपि वार्तिकालङ्कारस्यादौ " प्रायः प्रस्तुतवस्तुविस्तरभृतो 25 नक्षन्त एवोच्चकैर्वक्तारः ” इत्यवोचदिति ।
किं सर्ववेदिनोऽधिकृत्य भवताऽयं हेतुरनेकान्त उच्यते, अथास्मदादीनिति विकल्पयोबुद्धिस्थीकृतयोः पूर्वस्मिन्विकल्पे प्रतिसमाधायापरस्मिन्नपि प्रतिविधातुकामः तद्यदी [३७.२ १]त्यादिनोपसंहर्तुमुपक्रमते । क्षणानां विवेकः पृथक्त्वं तद् द्रष्टुं शीलं येषां तान् अधिकृत्यो[३७२१.द्दिश्य उच्यते ।
१. क्षणं वीक्षमाणानां-s
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org