________________
३७. प. १७
हेतु बिन्दु टीकालोकः ।
२९१
तस्मिन् दुःखे धर्मज्ञानक्षान्तिः [ ३७.१३] स्वरूपज्ञानयोग्यता । दुःखसाक्षात्संका (क्षात्का) रिज्ञानोपजननयोग्यः कुशल इति यावत् ।
- व्रत
सक्षणः किं करोतीत्याह । 'दशानामि [ ३७.१३ ]ति । राग- प्रतिघ-मानअविद्या - विचिकित्सा पव, सत्कायदृष्टि - मिथ्यादष्टि - अन्तमाहदृष्टि - दृष्टिपरामर्ष - परामर्षलक्षणा दृष्टयः पञ्च - दशानुशयाः एषाम् वासनां निरोधयति [ ३७.१३] 5 विनाशयति। कथं करोतीत्याह । तद्विरुद्धे [ ३७.१४ ]त्यादि । तैरनुशयैर्विरुद्धोऽयमाशयश्चित्तसंतत्यवस्थाविशेषस्तस्योत्पादनात् । दुःखे धर्मज्ञानक्षान्तिक्षणस्यार्थक्रियामुपदर्श्य दुःखे धर्मज्ञानक्षणस्य ततो भिन्नामर्थक्रियां दर्शयितुमाह-दु:ख [३७.१४] इति । दुःखे धर्मज्ञानं [ ३७.१४.] दुःखस्वरूपसाक्षात्कार (र) प्रवृत्तज्ञानम् । निर्वाणं [ ३७.१५] - मोक्षः प्राप्यते अनयेति व्युत्पत्त्या, निर्वाणस्य प्राप्तिर्यस्मादिति व्युत्पत्त्या वा तावत्क्लेश - 10 विविक्तता निर्वाण' प्राप्तिशब्देनोक्ता | दर्शनमार्गप्रहेयाणां द्वात्रिंशतः क्लेशानां मध्येऽनेन दशानामेव क्लेशानां वि (नि) रोधाद्दग्ध (दश) क्लेशविविक्ततानाततस्यात् पादनात (!) समुदयादिज्ञानादिप्रहातव्यक्लेशप्रहाणिप्रतिरूपा निर्वाणभावस्य दवीया (यः) सिद्धयवस्थानादन्यथैतदसमंजसं स्यादिति । अथवा निर्वाणशब्देन नैवार्चटः परमनिः श्रेयसात्मने यदेवमूचे किंत्ववान्तरनिःश्रेयसं तथाभूतमिति न किञ्चिदवद्यम् । कथं तथाकरोतीत्याह अनुशयेति 15 [३७.१५] । सति तस्मिन्मनागपि ते पुनर्नोत्पद्यन्ते । अपि तु तद्विविक्त एव क्षणप्रबन्ध इति तदा सुदार्व्यापादनं तस्याधीसयम् (?) । पूर्वकेन च क्षणेन क्लेशा निष्केशिता उत्तरेण तु यथा ते' पुनर्न प्रविशन्ति, तथा आचरितमित्यनयोर्व्यापारप्रयोजनम् । अतएवाभिधर्मको “चौरनिष्काशनकपाटपिधानवद्” इति (अभि.. ६.२८ भा. ) दर्शितम् । दुःखे धर्मज्ञानक्षान्तिधर्मज्ञाने च कामावचर केशप्रतिपक्षतया ज्ञातव्ये दुःखे धर्मज्ञानक्षान्तिधर्मज्ञानयोरुदा - 20 हरणा(ण) दिङ्मात्रत्वेन अन्येषामपि तथा विविक्तत्वादेषामि [ ३७.१६]ति बहुवचनेनाह ग्राहकाण्यालम्बकानि । कानि पुनस्तानि ग्राहकाणीत्याह परे [ ३७.१ ६ ]ति । परचित्तविषयाणि ज्ञानानि परचित्तज्ञानानि [ ३७.१६] ।
I
एतदुक्तं भवति । दर्शनमार्गमधिगच्छतो दुःखे धर्मज्ञानक्षान्त्यादिक्षणाः । क्रमभाविनः क्रमभाविभिर्ज्ञानैर्योग्यंतरेण यदालम्ब्यते परार्थोद्देशेन तथा तद्विषयाणि तद्योगान्तरज्ञानानि 25 पृथगेव [ ३७.१६.] पूर्वपूर्वज्ञानाद्भिन्नान्येव प्रमाणानीति दर्शनमार्गाधिगन्तृक्षणविषयाणां योगिज्ञानानां पृथगेव प्रामाण्यमिति प्रतिपाद्य संप्रति सामान्येनैव योगिज्ञानानि भिन्नार्थ - क्रियासामर्थ्यक्षणविषयाणि सर्वाण्येव प्रमाणानीति प्रतिपादयिष्यन्नाह - पर हिते [ ३७.१७]१. दमानां इति त्वसम्यक्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org