SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २९ . .. पण्डितदुबैकमिश्रकृतो [पृ. ३६. पं. १९स्वविषयाकि'या येषान्ते तथा, तेषां कचिदपि [३६.१९.] न प्रवर्तयन्तीति पूर्वकेणाभिसम्बन्धः । विशेषेण [३६.१९.] विशेष्यैव यैर्मीमांसकैरेवं व्याख्या[य]ते [३६.१९.] तेषां मत इति सामर्थ्यात् । यात्मकस्य [३६.२१.] सामान्यविशे पात्मकस्य । विज्ञानाभिन्नहेतुत्वादिच्छादेविज्ञानात्मक(कत्वं) सिद्धमभिप्रेत्यं प्रामाण्यानुषतः 5 कुतो(कृतो) वेदितव्यः । प्रमाणानामियत्ता [३६.२६.] व्यवच्छेदः । कुमारि लमतेन प्रत्यक्षानुमानोपमानार्थापत्तिशाब्दाभावाः षडेव प्रमाणानीत्येवंरूपा विशीर्येत [३६.२७.] त्रुटयेत् । धारया प्रवाहेन वहनशीलानि [३७.१.] भवनधर्माणि । अनेकान्तस्तदभिन्नयोगक्षेमत्वलक्षणो हेतुरिति प्रकरणात् । एकस्मिन्नर्थे सजातोयानि सजातीयविजातीयानि वा प्रमाणानि संप्लवन्ते प्रवर्त्तन्त इति वादी 10 [३७.५.] । प्रतिक्षणं [३७.७.] भिद्यत [३७.८.] इति सम्बन्धः । केषां क्षणविशेषे(ष)साध्येऽर्थे वाञ्छा भवति । यद्यस्मदादीनां तथाऽर्थादर्शित्वादेव न संभवतीत्याह योगिनामि[३७.११.]ति । योगश्चित्तैकाग्रता स येषामस्ति तेषाम् , नित्ययोगे प्रशंसायां वाऽय[मि]निर्द्रष्टव्यः । शमथविपश्यने वा योगस्तद्वताम् । ननु तेषां स्वार्थासंभवात्किम भिप्रेत्यास्मिन्वान्छा भवतीत्याह-परे[३७.११.]ति । 15 अथ परोपकारिणः परेषामेवोपकुर्वन्तु कस्मात्पुनः क्षणविशेषसाध्यमर्थ प्राप्तुं परिहत्तुं वाऽभिलषन्तीत्याह कस्यचिदि[३७.१२.]ति । कस्यचित्क्षणविशेषसाध्यस्यार्थस्य कथं चित्साक्षात्पारंपर्येण वोपयोगादुप[३७.१२.]युज्यमानत्वात् । कचित्[३७.१२.] प्राणिनीति प्रकरणादवसेयम् । अनेन परोपकाराङ्गत्वं तस्य दर्शितम् । तदा[३७.१२.] नानायोगक्षेमत्वमिति सम्बन्धनीयम् । तदेत्यत्रच्छेदो व्यक्त एव । एतदेव निदर्शयन्नाह20 यथे[३७.१२.Jति । सामान्योच्छेदस्यार्थस्य विषयोपदर्शने यथैतद्दर्शितम् , तथाऽन्यदपि द्रष्टव्यमिति यथाशब्दस्यार्थः । ___ भावनामार्गव्युदासेन' दर्शनमार्ग [३७.१२.] इत्युक्तम् । दुःखे धर्मज्ञानक्षांतिः, दुःखे धर्मज्ञानम् । दुःखेऽन्वयज्ञानशांतिः, दुःखे अन्वयज्ञानम् । समुदये धर्मज्ञानक्षान्तिः, समुदये धर्मज्ञानम् । समुदयेऽन्वयज्ञानक्षान्तिः, समुदयेऽन्वयज्ञानम् । निरोधे धर्मज्ञान25 क्षान्तिः, निरोधे धर्मज्ञानम् । निरोधेऽन्वयज्ञानक्षान्तिः, निरोधेऽन्वयज्ञानम् । मार्गे धर्म ज्ञानक्षान्तिः, मार्गे धर्मज्ञान[म् ] । मा[21a] र्गेऽन्वयज्ञानक्षान्तिरित्येवं पञ्चदशक्षणा दर्शनमार्गः तदुक्तमभिधर्मकोशे “ अदृष्टदृष्टेर्दुङ्मार्गस्तत्र पञ्चदशक्षणाः " [अभि. ६.२८.] इति । तस्मिन्दर्शनमार्गे फलभूताः पञ्चसंक्लेशस्कन्धाः । दुःखाख्यं सत्यम् । १. अत्र विशेषार्थिना विसुद्धिमग्गोऽनुसतव्यः पृ. ३५९ । Jain Education International www.jainelibrary.org | For Private & Personal Use Only
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy