________________
पृ. ३६. पं. १८. ]
हेतु बिन्दु टीकालोकः ।
तस्यैव [३५.२०] खलक्षणस्यैव । सामान्यस्याप्यर्थक्रियास(सा)मर्थ्यलक्षणत्वात्तद्विषयोपि विकल्पः प्रामाण्यान्नापैतीति पूर्वपक्षमुत्पश्यन्नेवं ब्रुवाणः किं मन्यत इत्याह सामान्यस्यति [३५.२१.] । तद्विपरीतत्वाद [ ३५.२१. ]र्थक्रिया सामर्थ्यलक्षणविपरीतत्वात् । यथा च तस्यार्थक्रियाकारित्वमसंभवि तथा पुरस्तादुक्तमिति । गूढाभिसन्धिश्चैवं मन्यत [३५.२१.]इति द्रष्टव्यम् । ततोपि [३५.२३] वस्तुन्येव [ ३५.२४] पुरुषस्य 5 प्रवृत्तेरि[५.२६. ]ति संबन्धः । तत्सामर्थ्यजन्मा विकल्पो न प्रमाणमि[३५.२६.]ति साध्ये च हेतुपदमेतत् । कथं प्रवृत्तिरित्याह तदध्यवसायेने [३५,२४.]ति । कस्मात्तदध्यवसायेन प्रवृत्तिः कल्प्यते इत्यन्यथे [ ३५.२५ ]ति । तत्र [४५.२५.] स्वलक्षणे पूर्वस्या उपपत्तेरस्याश्च तुल्यत्वात् किमनेन पुनरुक्तेने’त्याह पूर्वभि[३५.२७.]ति । एवञ्च शाब्दीं गतिमाश्रित्य भेदो दर्शितो द्रष्टव्यः । अथार्था- 10 भेदाकि मुखभेदमात्रेण भेदेनोपदर्शितेनेति निर्बन्धस्तदेवोच्यत इत्यभिप्रायवानाह यद्वे [३६.१.]ति । किमिती[३६६. ]तिनिपातानिपातसमुदायः कस्मादित्यस्यार्थे वर्तते ।
स्यादेतत्स्वलक्षणे निर्विकल्पकविषये प्रवर्तयन्नपि तदनुभवात्प्रमेयान्तरविषयः सन् प्रामाण्यं प्राप्स्यतीत्याशंक्याह अयमस्याभिप्राय [३६.१२.] इति । तत्रैव [३६.१३.] प्रमेयान्तरे स्वविषय एव ं प्रवर्तयेदि [ ३६.१४. ]ति । सम्भावनपदमेतत् । शक्यार्थं वा । 15 किं कर्तुं प्रर्वतयेदित्याह - रूपं तत्साध्यमि [३६.१४. ]ति । प्रमेयान्तरमात्रं तद्विषयमभिप्रेत्य तत्रैव प्रवर्त्तयेत् तत्साध्यामर्थक्रियामधिगन्तुमि [ ३६ . १४ . ] युक्तमधुना तु यदि सामर्थ्य[20b](सामान्य) लक्षणं तत्प्रमेयान्तरं तदा नैव वा[ ३६.१४.] इत्युक्तम् । नैव वा प्रवर्तयेत् न स्वलक्षणे नापि सामान्ये न क्वचिदपीति प्रवृत्ति - मात्रप्रतिषेधाद् म्रियते ।
20
२८९
यद्वा पूर्वं
सामान्यसाध्यामर्थक्रियामनाकलय्याभिहितम्-तत्रैव [३६.१३.]इत्यादि । इदानीं तु तत्साध्यामर्थक्रियामाकलय्योक्तम् - नैव वे[ ३६.१४ . ]ति । कस्मादेवमित्याह - तद्विषये[३६.१५.]ति । तत्सिद्धय एव प्रवर्तयिष्यतीति आह विकल्पे[३६.१६.]ति । तत्सिद्धे[३६.१४ . ]रभिन्नज्ञानलक्षणाया अर्थक्रियाया निष्पत्तेः । सामर्थ्याच्चाभिन्नाभिधानलक्षणायाश्चेत्याभेदम् (श्चेत्यपि वेद्यम् ) ।
: 25
ननु ततः प्रमेयान्तरविषयेोपि प्रत्ययस्तद्विषये प्रवर्त्तयन्निष्पादितस्वविषयार्थक्रियो वा क्वचित्प्रवर्त्तयन्प्रामाण्यमपि प्राप्स्यतीत्याह - नहीं [ ३६.१६. ]त्यादि । प्रत्यया[३६.१७.] इत्यत्र बहुवचनेन साकल्यं दर्शयति । साधिता निष्पादिता अर्थक्रिया [ ३६.१८. ] । १. प्रवर्तयतु s । २. तत्साध्यामर्थक्रियाम् S |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org