________________
पृ. ३४. पं. ४. ]
हेतु बिन्दु कालोकः ।
येषां तेषाम् । कथमिष्टम् । क्षेपे चायं किमः प्रयोगः । उपप्लुतचेत सामेव मीमांसकानामिदमिष्टमिति सामर्थ्याद्दर्शितम् । प्रमाणासि ( मासि ) द्धौ प्रकृष्टं कारकं प्रमाणमुच्यतेऽविशेषाधायित्वे च साधकतमत्वाभावात्कथमस्य तत्त्वं स्यादित्याशयः ।
नैवै[३२.२७.]ति व्याचक्षाणञ्च[ ३२.२७.] कारमवधारणे दर्शयति । लिङ्गग्रहणातरकालभाविनो [ ३२.२८.] विकल्पस्येति प्रकरणात् । तस्मिन्विकल्पे [19b] 5 'प्रतिभासनात्तस्य सामान्यमिति प्रकाशितम् । संबद्धसंबन्धादित्यादिः पूर्वोक्तः प्रकारः । व्यक्तिस्वभावत्वे तस्य कथं तदकर्तृत्वमित्याह तस्येति [३३.३.] । कल्पितं विकल्पेन घटितं रूपं [३३-३] स्वभावो यस्य तस्य । तदसंभवाद् [३३.३.] रञ्जनाद्यर्थक्रियानुपपत्तेः। सर्वनित्यसाधारणदूषणमिह समुच्चिन्वन्नाह । नचे [३३.४.]ति । अन्या 'चे [ ३३.५]ति तदेकसाध्यतयोपगताऽभिन्नज्ञानाभिधानले क्षणमवसेयम् । इति [ ३३.६.]- 10 रेवमर्थो मन्यते [३३.६.] चेतसि निघत्ते वार्त्तिककार इत्येवं ब्रुवाण इति चार्थाद्
द्रष्टव्यम् ।
२८७
1
अनधिगतार्थविषयं प्रमाणमिति प्रमाणलक्षणं परेण कारिकया दर्शितमिति दर्शयन्नाह तत्रापूर्वेति [ ३३.११.] अहमहमिकया क्रिया आहोपुरुषिका तया [३३.१ ६.] करणभूतया । तत्खलक्षणमस्पष्टरूपतया अनुकरोतीति तदनुकारी ति विवक्षित - 15 मिति प्रकट्यन्नाह। अस्पष्टनीलस्वलक्षणानुकारी [३३.२७.] अस्पष्टनीलस्वलक्षणाभासमित्यर्थः । सर्व एव हि विकल्पोऽस्पष्टस्वलक्षणाभः । नीलादि पश्यतस्तु विकल्पयतो यः स्पष्टार्थप्रतिभासाभिमानः स तद्विकल्पसमसमयजन्मनो निर्विकल्पस्य प्रसादात् । यथा चैततथोभे(चे) समीचीनमाचार्यो 'विनिश्चयमिति ( य इति ) तत एवा [व] गन्तव्यम् । कथं पुनरस्पष्टनीलस्वलक्षणानुकारि न तु निर्विकल्पवत्स्पष्टस्वलक्षणानुकारीत्या शंक्य योज्यम् - 20 साक्षाद[३३.२७.]व्यवधानेन अनुत्पत्तेस्ततः स्वलक्षणादिति प्रकरणात् । यदि ततस्तन्नोत्पन्नं तर्हि तस्य नियतनीलाद्याकारपरिग्रहः कुतस्त्य इत्याशंक्य योज्यम् - दर्शने - [३३.२७.]ति । दर्शने’नामुधेना ( नानुभवेना) हितः संस्कारो [३३.२७.] वासना तस्या' वेध [ ३३.२७.] आक्षेपस्तद्वशात् । चो[ ३३.२७.] व्यक्तमेतदित्यस्मिन्नर्थे )
ननु यत्तत्रावभासते तत् स्वलक्षणम् । येन स्पष्टनीलस्वलक्षणानुकारीत्युच्यत इत्याह 25 दृश्ये [ ३३.२८. ]ति । दृश्यविकल्प्ययोरेकीकरणात् । दृश्यविकल्प्यावर्थादृश्ये[३३.२८.]ति वेकीकृत्यास्य प्रवृत्तेरित्यर्थः । दृश्यविकल्प्यैकीकरणं च तस्य तथोत्पत्तेरेव द्रष्टव्यम् । तदवभासिनोऽबाह्यत्वादेव न परमसावनुकरोतीत्याशयः । स [ ३४.१] विकल्पः । तपो (पा) नालम्बने कथं गृहीतमाहित्वलक्षणं स्मृतित्वमित्याशंक्याह तथाही [ ३४.४. प्रति ।
१. वेति । २. आधेय 'S |
३८ ३.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org