________________
२८६ पण्डितदुवैकमिश्रकृतो
[पृ. ३२. ५.९मुखेनाह ने( खेनाह आहचे )त्यादि । नाश इति व्यक्ते[19a7 रितिप्रकरणाद् द्रष्टव्यम् । अजातता [३२.१०. केनेष्टे[३२.११.Jति लिङ्गविपरिणामेन संबन्धनीयम् । केन [३२.११.] कारणेन। तद् व्यक्तिवत् । अनन्वयों [३२.११.] व्यक्त्यन्तराननुगामित्वम् । 5 ननु च “सामान्यान्यपि चैतानि नाशीन्याश्रयनाशत[श्लोकवा. पृ. ३८०] इति वचनान्मीमांसकैर्व्यक्तिनाशे नाश इष्ट एवेति किमुच्यते व्यक्तिनाशेऽनाशः । केनेप्टे(प्ट इ)ति प्रकृतं मीमांसकमतमिति । सत्यमेतत् । केवलमेवंवक्तरयमाशयः यद्येकं सामान्यं ततो भिन्नञ्चाभिन्नञ्च संगच्छते तदा व्यक्तिरूपेण व्ययते तद्व्यतिरिक्तेन च रूपेणानुवर्तत
इति स्यादपि यदि परं मनोमोदकोपयोगमात्रवदेतदिति । एतच्चाधस्ताद्यथावसरमिहैव 10 प्रतिपादयिष्यते । अत एव च कैश्चिन्नैयायिकैर्नाशीनीत्युपलभ्यानीत्येतदर्थ कुमारिलेनोक्तं
व्याख्यातमिति । ... व्यक्तिजन्मनि जन्मानिष्टौ सामान्यस्य दूषणमिदमुपस्थितमिति दर्शयन्नाह-व्यक्ती[३२.१२.]त्यादि । जातिरिति वक्ष्यमाणापेक्षया स्त्रीलिङ्गेन निर्देशः । निष्क्रियत्वाज्जातेरित्यभिप्रेत्य नागतेत्यभ्युपगमयति। प्राग[३२.१३.] व्यक्त्युदयात्पर्वम् । दृश्याया अनुप15 लब्धत्वादित्यभिप्रायेण च नासीदित्यु[३२.१३.]पगमयति । चेदि[३२.१२.]त्य
त्रापि संबध्यते । तस्या व्यक्तरुत्पद्यमानाया देशो दिश्यतेऽस्मिन्निति कृत्वाऽऽधार उक्तः । अनेनैतद्दर्शयति । तत्संबन्धोरु(?)बन्धनेन वा प्रकारेण भवेत् स चैकोपि न भवतीति। सा जातिः तया व्यक्त्या सङ्गता संबद्धा कथं [३२.१३.] न कथञ्चित् । तज्जन्यजन्मनि
सामान्यस्येष्यमाणे तादात्म्यं तावदतिभवान्न(तावद् भेदान्न) युज्यते । तत्सम्बन्धमात्र20 मपि न संगच्छत इत्यभिप्रायोऽस्यैवं च वदितुर्बोद्धव्योऽन्यथा मीमांसकमते तादात्म्या
दन्यस्य सम्बन्धस्यानिष्टेरागताश्रयान्तरादित्यादिद्वारा सम्बन्धमात्रनिषेधोऽनुपयुक्तः प्रसज्येत प्रस्तुतश्च तन्मतमिति । व्यक्तिनाशेऽविनाशित्वेष्टौ च सामान्यस्ये(स्या)यं दोषः स्यादिति दर्शयन्नाह व्यक्ति(क्तीति)[३२.११.। निष्क्रियत्वादित्यभिप्रायेण नागते[३२.१४.]त्याह । तच्छून्ये[३२.१४.] नष्टव्यक्तिरहिते दृश्यादर्शनाभिप्रायेण च 25 न स्थितेत्याह । केति [३२.१५.] काकाक्षि(काका) प्रश्नयुक्तः कथं(कथ)नाऽशक्यत्वं
प्रतिपादयति । जातेय॑क्त्यात्मकत्वोपगमे तदुदयव्यययोस्तदन्वय'व्ययौ न स्याताम् । सत्याञ्च तदिष्टावयमयञ्च दोष इति प्रतिपाद्य तत्तदिष्टौ च जातेस्तादात्म्योपगम एव जघन्य इति प्रतिपादयन्नाह व्यक्ते[३२.१६.Jरित्यादि । सा व्यक्तिरात्मा स्वभावो यस्य तद्भावः । अनुपप्लुतं [३२.१७.] वाद्यादिभिरप्रापितास्वास्थ्यं चेतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org