________________
पृ. ३२. पं. ९. ] हेतुबिन्दुटीकालोकः।
२८५ उक्तः [३२.१] परेणेत्यर्थात् । किं कृत्वाऽसावुक्त इत्याह पूर्वपक्षयित्वेति [३१:१९]। सामान्यम् [३१.२२]इत्यादिर्भविष्यती[३१.२२]त्यन्तः पूर्वपक्ष. ग्रन्थः । अस्यैव पूर्वपक्षस्याकारम् इति[३०-२३]शब्दो दर्शयति । तस्य[३१.१९] सामान्यस्य वृत्ते[३१.१९]वर्तनस्य । नियामकं व्यवच्छेदकम् । साबलेयादिषु कर्कादिसाधारणे परस्परं भिन्नत्वेपि गोत्वमेव वर्तते नाश्वत्वमित्येतन्निमित्तम् । यथैकस्मा- 5 सावलेयात्कर्को भिन्नस्तथा बाहुलेयोपि ततस्तुल्यपि भिन्नत्वे [३१.२१] भेदे केषुचित [३१.२१] सावलेयादिषु वृत्तिर्गोत्वस्य अवृत्तिताऽविद्यमानवृत्तित्वमविद्यमानत्वमेवाश्वत्वस्यादिशब्दसंगृहीतस्य । कस्य केषुचिद्वृत्त्यवृत्तितेति अपेक्षायामुक्तं' गोत्वादेरि[३१.२२]ति । अनिमित्ततेति काकाक्षिन्यायेनोभयत्रापि वृत्त्यवृत्तितायां बुद्धावपि संबध्यते । तेनायमों यथा गोत्वादेः केषुचिद्वृत्त्यवृत्तिताऽनिमित्तापि नियामक- 10 सामान्यरहिताऽपि तथा [३ १.२२] तद्वहुडि[३१.२२रभिन्नाभासा धीरनिमित्ता जनकगोत्वसामान्यशून्याऽनादितथाविधवासनासामर्थ्यात् केषु'चिदेव भविष्यती[३१.२२7ति । तेन विषयं विना कुतोत्प(विना बुद्धयुत्पत्त्यभावेन तत्[३१.२५]सामान्यं ध्रुवं 'नत्यमिच्छति । यद्वा तेन कारणेन तत्सामान्यमिच्छन्ति ध्रुवं निश्चितम् । तेनाभिन्नेन विषयेण विना अनुगमाभिकानां बुद्धीनामुत्पादे को दोष इत्याह । 15 ता हीति [३१.२६] । ता अभिन्नाभासा सामान्यबुद्धयः । अनेन सामान्याभावे तथाभूतबुद्धयुत्पादे बाधकप्रमाणमुक्तं परेण । असावेव वन्दीकृतमर्थं प्रतिकुर्वन्नाहन स्विति [३१.२७] । वृत्तिर्नियतेति प्रकरणात् । न दुष्यती[३१.२७ति ब्रुवतोऽयं भावस्तदन्तरेण तथाविधबुद्धयुत्पादे मिथ्यात्वदोषोस्ति बाधकः । सामान्यस्य [३१.२७7 तु सामान्यान्तरमन्तरण केषुचिदेव वृत्तौ किमस्ति बाधकं येन तत्रान्य'सामा 20 न्यमभ्यनुजानामीति । असौ [३२.१] मिथ्यात्वप्रसक्तिदोषो न तथागतसिद्धान्तनीतिपरिशुद्धबुद्धीन[३२.२]स्मदादीन् बाधते व्यथयति । कस्मादित्याह सामान्ये[३२.ति । यद्यपि पूर्ववत् सामान्यबुद्धेर्मिथ्यात्वव्यवस्थानिबन्धनं प्रमाणं मात्रया दर्शितं तथापि बहुमुखमेवास्या मिथ्यात्वव्यवस्थापकं प्रमाणमस्तीति प्रतिपादयितुं तथाही[३२.३]त्यादिनोपक्रमते । सास्ना [३२.४] गलकम्बलः । आदि- 25 शब्दात्ककुदादिपरिग्रहः। 'नासाधारणं सामान्यरूपताहानिप्रसङ्गात्। नोदयव्ययप्रसङ्गयोगि नित्यत्वाभावप्रसङ्गभावादिति बुद्धिस्थम् । इतिः [३२.८7 अनन्तरोक्तं प्रत्यवमषति । कुतो न युक्तमित्याह विरुद्धे[३२.९]ति । असमर्थ सातिरेकं कारिकाभिर्वक्तुं पर
१. 'अनिमित्ता'-s
२. न चासा-s
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org