________________
पण्डितदुर्वेकमिश्रकृतो
[पृ. ३०. पं. २७क्षतिरित्याह तत [३०.२७] इति । ततस्तादृशरूपनिश्चयात्। तच[३१.१]छब्दे न सामान्यं प्रत्यवमृष्यते। सहचारिशब्देन च संबद्धं विवक्षितम् । तेनायमर्थस्तत्सहचारिणः सामान्यसंबद्धस्य तत्समवायविषयस्येति यावदिति । एतच्च नैयायिकादीन्प्रत्यभिहितम् ।
मीमांसकं प्रत्याह-तदभिन्नस्वभावस्य चे[३१.१]ति। 5 किमिन्द्रियबुद्धौ सामान्यस्य प्रतिभास आहोस्विद्विकल्पबुद्धावनुमानात्मिकायामिति विकल्पयोरन्तर्निहितयोरेकं विकल्पं निराकृत्यापरं निराकर्तुमाह अथे [३१.३]ति । आदिशब्दाद् शब्दबा(शब्दादि)परिग्रहः । प्राक्तनमेवाभिप्रेत्ये[३०.१५]ति पदमत्राभिसंबध्यते। ततः अनुमानादिबुडिमिति द्वितीयया निर्देशः। यथाऽस्पष्टो व्यक्त्या
कारोऽर्थाकारो वा लक्ष्यमाणः सम्वेद्य मानौस्ति न तथा स्वलक्षणप्रतिभासो 10 व्यक्त्याकारो लक्ष्यमाणोस्तीति योज्यम् । कस्मादेवमित्याह-तभाव [३१.५] इति तस्य स्वलक्षणस्याभावे तासां [३१.६] सामान्यबुद्धीनाम् । अत्रैवाभ्युच्चयहेतुमाह
आकारान्तरेण चे[३१.६ति । स्वज्ञाने इन्द्रियजन्मनि ज्ञाने । स्पष्टास्पष्टरूपद्वययोगि स्वलक्षणं तेनेन्द्रि'यज्ञाने स्पष्टेन रूपेण प्रतिभात्यन्यत्र पुनरस्पष्टेनेत्याह अनेके
[३१.६]ति । अतिप्रसङ्गादि[३१.७]ति घट प्रतिभासेपि पटप्रतिभासकल्पना 15 स्यात् । घटपटलक्षणरूपद्वय(या)योगित्वात्पटस्येत्यादेहत्तरस्यात्रापि सुवचत्वादित्यभिसन्धिः ।
तस्मादि[३१.७]त्यादिनोपसंहरति । इयमभिन्नाभासा सामान्याकारा स्वलक्षणादुद्भवोऽस्या इति स्वलक्षणोद्भवा सती भिन्नार्थग्राहिणी व्यावृत्तवस्तुग्राहिणी न प्रतिभाति । किं त्वनादी[३१.९]ति ।
_' दृढत्वात्सर्वदा बुद्धेरि'ति ब्रुवता यदि बुद्धेर्दायमभिहितं तदपि निरूपयन्नाह20 दृढत्वञ्चे[३१.१०]ति । सहेतुकविनाशवादिपले क्षणिकत्वाभ्युपगमादि
[३१.१०]त्याशुतरविनाशित्वाभ्युपगमादिति वेदितव्यम् । अस्याः [३१.११] सामान्यबुद्धेः । तद् [३१.१०] अबाध्यमानत्वम् ।
[18b] स्याच्छब्दोऽनेकान्तवचनो नियतोस्ति तेन स्यावादो[३१.१२]ऽन. कान्तवाद यद्वा स्यादक्षणिकः स्यात्क्षणिक इत्यादि [३१.१२] स्यादिति वादः 25 स्थाबादस्तस्य भंगो निराकरणं तस्मादेवावधारणीयो बाधक इति प्रकृतत्वात् । स्थाद्वादभङ्गमधीत्येति कणि ल्यबलोपे चेयं पञ्चमी द्रष्टव्या । '
एवं मन्यत [२९-२२] इत्यादिना यदुपक्रान्तं तदुपसंहरन्नाह तस्मादि[३१.१३]त्यादि । यस्तु [३१.१८] मिथ्यात्वे'दोष[३२.१] इति सम्बन्धः ।
१. ' मिथ्यात्त्रप्रसङ्गदोषः'-s
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org