________________
पृ. ३०. पं. २५.] हेतुबिन्दुटीकालोकः । [३०.७] । एवं मन्यते यदि सामान्यभेदाद्भावभेदस्तदा गवाश्वस्येव गोत्वाश्वत्वयोरपि भेदस्तदपरसामान्यभेदाद्भवेदिति सामान्यस्याप्यपरसामान्यप्रसक्तेरिति । अस्त्वेव का क्षतिरित्याह-नि:सामान्यस्यति [३०.७] । अस्ये[३०.७]ति सामान्यस्य ।।
एतेनेति [३०.१०] 'न तथाविधमुपलक्षयाम' इत्यादिनोपदर्शितेन दृश्यानुपलम्भेन । कथं पुनर्दृश्यानुपलम्भः सिद्धो येन तन्निराकृतमेतत् स्यात् यत [३०.१५] इति। तदा- 5 ऽसिद्धमि[३०.१५]त्यन्व(नु)गमापेक्षत्वं बुद्धेरिति प्रकरणादृष्टव्यम् । तत्र [३०.१६] इन्द्रियबुद्धावनुपलक्षणाद् [३०.१६] अप्रतिभासनात् । अस्पष्टनीलाद्याकाराः सा(रा सामान्यबुद्धिरभिमतं संवेद्यत इति चात्राभिप्रेतम् । व्यक्तिरूपमपास्यान्यस्येष्ट(स्पष्ट)मेवरूपमुपगतम् । तत्रावभासते तदेव सामान्य मस्माकमित्याशंक्य तदपि नास्तीत्यभिप्रायवानाह स्पष्टस्यापी[३०.१७]ति । अनुपलक्षणादित्यभिसम्बद्धयते। संप्रति द्वितीयस्य 10 स्पष्टरूपस्योपलक्षणमभ्युपगम्य तस्यानुगामिरूपत्वं प्रतिषेधयन्नाह । तद्भावे चे [३०.१७]ति। चो विशेषार्थाभिधानाभ्युपगमे । अनेन किं तद् द्वितीयं स्पष्टं रूपं साबलेयबाहुलेयव्यक्तिद्वयान्तरालं न व्याप्नोति किं व्याप्नोतीति विकल्पयोर्बुद्धिस्थीकृतयोर्मध्येऽव्यापनपक्षे दोषं दर्शयति । व्यक्तियस्यान्तरालमवकाशमव्याप्नुवतः [३०.१७] स्वसत्तयानभिसम्बन्ध(घ्न)तः। कथं तदनुगमो [३०.१८]व्यक्त्यन्तरानुगमो व्यक्त्यन्तरव्यापित्वं 15 निष्क्रियत्वेन गत्वा व्यापारासंभवात्तथात्वेपि पूर्वव्यक्तिवियोगानुषङ्गात् । न च तत्साङ्गमिति च भावः।
द्वितीय [18a] 'विकल्पेप्याह व्याप्ती चे ३०.१८]ति । तत्र[३०.१९] अन्तराले ।
न तत्य तत्र व्यक्तं रूपमस्ति व्यञ्जकाभावात् तेनानुपलक्षणमित्याह नहीं[३०.१९]ति। 20 अवश्यं हि भूतले तत् कयाचिद् व्यक्तमिति न तस्याव्यक्तरूपसंभव इति भावः । वार्तिककारस्याप्ययमर्थोऽभिप्रेत इति प्रतिपादयन्नाह-तथा चे[३०.२०]ति । प्रकृतोपयोगिभाग एव पठितुं युज्यत इति वार्तिकस्य पादत्रयमेवायमपठत् । उक्तयोपपत्त्या व्यक्तैकरूपसंभवे चेदमन्यदा(त्रा)पीति निदर्शयन्नाह-एकत्रापीति [३०.२३ । चो वक्तव्यान्तरसमुच्चये। सर्वसर्वगतवादिनमधिकृत्योक्तं सकलेति [ ३०.२३ ] । स्वाश्रयसर्वगतवादिनं 25 तु प्रति स्वाश्रये ३०.२४ाति । नाम[३०.२५]शब्दोऽसम्भावनायाम् । इह एकत्रैवाश्रय इत्यने नाप्यंशेनायं न दृष्टान्तः किन्तु यथा क्षणिकत्वस्य निर्विकल्पकबोधेन दृष्टस्यापि न दर्शनावसायस्तथा सकलस्वाश्रयरूपप्रतिभासेपि न दर्शनावसाय इत्यनेनैव । अस्तु तर्हि सर्वभुवनवर्तिरूपस्य निश्चयः । सर्वस्वाश्रयवतिनो वा का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org