SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ २८२ पण्डितदुर्घकमिभकृतो [पृ. २९. पं. ४च्छेदेन । एकतो व्यावृत्त्योल्लिख्यमानं सामान्यं, नान्यदतस्तदध्यवसायिनस्तस्य प्रामाण्यमुपपद्यते । ननु दर्शनोत्तरकालभाविनो विकल्पस्य विशिष्टदेशादितया गृहीत'स्यैवार्थक्रियासाधनस्य तथाध्यवसायादिति विधिविकल्पग्राह्यमपि सामान्यमनधिगतार्थक्रियासाधनविषयं सत् 5 स्वग्राहिणं विकल्पं प्रामाण्येन योजयिष्यतीत्याह-इमिति[२९.४] । तुः पूर्वाद्वै धर्म्यमस्य द्योतयति । ____उदाहियते [२९.९] । उदाहरणीक्रियते । प्रकृतपरित्यागे किं कारणमिति - चाशयः । निराकर्तुमु[२९.१०]दाहियत इति संबन्धनीयम् । दृष्टान्तमेव विघटयितुं कां पुनारे[२९.१०]त्यादिनोपक्रमते। परस्परं व्यावृत्त्या 10 हि व्यक्तयो भिन्नमेव ज्ञानमुपजनयेयुः । कथं पुनरभिन्नां धियमभिधानं चादधतीत्याशक्याह एवम्[२९.२३] इति । तदेकं वाहदोहादिकार्य तत्र प्रतिनियमः । प्रतिनियतत्वमवश्यं प्राग्भावित्वं लक्षणं [२९.२ ३] यस्या सा तथोक्ता । उपकर्तव्यमभिव(व्य)क्तव्यं न तु जनयितव्यमित्यवसे[17b] यम् । नित्यतया तस्य परेण तथात्वानभ्युपगमात् । पराभ्युपगमानपेक्षायां चास्य दृष्टान्तत्वानुपपत्तेः । तस्माद्विवक्षितादपरं सामान्य 15 [२९.२४] तदेकसामान्य व्यंजकत्वाख्यम् । अन्यथा [२९.२ ४] तदपरसामान्ययोगेन व्यंजकत्वप्रकारेण । तदभिव्यक्तयेपि तदपरं सामान्यं तदेकसामान्याभिव्यंजकाख्यं सामान्याभिव्यञ्जकत्वाख्यमपरमुपेयम् । तथा तदभिव्यक्तयेप्यन्यदित्यनवस्थाया अपर्यवसानस्य प्रसंगात् [२९.२ ४] प्राप्तेर्हेतोः । साधयिष्यन्ति विवक्षितसामान्ययोगमन्तरेण स्वभावत एवेति प्रकरणादवसेयम् । 20 ननु किं प्रमाणपरिदृष्टार्थापलापे प्रयतिर्भवतां येनैवमभिधीयत इत्याह किम्[२९.६] इति । अथ किमज्ञायमानप्रमाणकमसदवश्यं भवति येन सर्वथा तदर्थक्रियो च्छेदः क्रियत इत्याह प्रमाणबाधितेन चे[२९.२६]ति । प्रमाणबाधामेव मात्रया दर्शयितुं तथाही[२९.२७]त्यादिनोपक्रमते नोपलक्षयाम [२९-२८] इति वदन्दृश्यानुपलम्भं बाधकं दर्शयति । अविभावनं[३०.२] 25 निर्लठितगर्भवद्विभागेनाप्रतिपत्तिः । रूपरूपिणोरनन्यत्वेन भेदे रूपिण एम भेदापतेरित्यभि प्रेत्याह पदार्थ छयोपगमप्रसंगादिति [३०.५] । आदि[३०.५]शब्दाच्छब्दज्ञानपरिग्रहः । ननु भिन्नसामान्ययोगाद्भेदो भावानां, न पुनः प्रतिभासभेदादित्याशंक्य यद्यप्यत्र शतं दोषाः सम्भवन्ति, तथापि ग्रन्थावस्तरभयादेकमेव दूषणं दत्ते सामान्यस्येति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy