________________
पृ. २९. पं. १. ] हेतुबिन्दुटीकालोकः।
.. २८१ तत्साध्यतया[२८.२२] सामान्यजन्मजन्य(सामान्यजन्य)तयोपगतामभिन्नज्ञानाभिधानलक्षणाम् । “समानप्रसवात्मिका जातिः' इति वचनात् । व्यक्तिसाध्याम् [२८.२ ३] इति व्यक्तिसाध्यतयोपगतामिति प्रत्येतव्यम् । अनेन यैवार्थक्रिया युष्माभिर्व्यक्तिसाध्यतयोपगम्यते सैव तत्साध्या भविष्यतीत्यपि पक्षः प्रतिक्षिप्तः । उभयत्रापि व्यक्तेरेवान्वयव्यतिरेकाभ्यां साक्षात्पारंपर्येण च तत्र सामर्थ्यस्य प्रमाणेनावगतत्वादित्य- 5 भिप्रेतम् ।
ननु कस्मिन्काले करोतीति प्रश्ने " स्वलक्षणप्रतिपत्तेरूवम्" [२८.२३] इत्युक्तम् युक्तम् । न तु 'कीदृश इति प्रश्ने इति चेत् । सत्यम् केवलं स्वलक्षण[17a] प्रतिपत्तेः[२८.२ ४] उत्तरकालं प्रतीयमानत्वाद् ऊर्ध्वमुत्तरकालमित्यु क्तम् उपचारत इति बोद्धव्यम् । तत्प्रतिपत्तेरूचं प्रतीयमानत्वमेव दर्शयन्नाह तत्सामर्येति 10 [२८.२५] । यद्वा कीदृशमिति प्रश्नयित्वैव तत्सामर्थेति योज्यम् । तत्सामोत्पन्नविकल्पग्राह्यत्वमपि किं स्वलक्षणप्रतिपत्तेरूर्ध्वमेव किं वा कियत्कालपरि(य)वसाने इत्यपेक्षामामुक्तम् तत्प्रतिपत्ते रूर्ध्वमिति एवं ब्रवीति [२८.२७] । किंविशिष्टं सामान्य तथातया प्र(ब)वीतीति । पराभिप्रायेणाप्येवमभिधानं किमर्थमित्याह दर्शनेति [२८.२७] । ननु किं सामान्यमात्रमेवार्थक्रियासाधनं न भवति, येन परैस्तथाऽभिधानादेवं 15 ब्रवीतीत्युच्यत इत्याशंक्याभ्युपगममेवोत्तरं रचयन्नाह- सर्वमेवेति [२८.२९] ।
यद्येवमनुमानविकल्पग्राह्यस्यापि सामान्यस्य तथात्वात् तद्विषयस्यानुमानविकल्पस्यापि प्रामाण्यन्न स्यात् । ततश्च शब्दप्रवेशेऽक्षितारानिर्गमवृत्तान्तो जात इत्याशंक्या 'यत्त्विति [२९.१7 । तुर्विशेषार्थः । यत् सामान्यमर्थक्रियामुपकल्पयति । [२९.३] । कीदृशमित्यपेक्षायामाह-अनधिगतेति [२९.२] । अनधिगतं 20 पूर्वज्ञानेनापरिच्छिन्नं यदर्थक्रियासाधनं तद्विषय आश्रयत्वा ध्यवसायेन यस्य तत्तथा । हेतुभावेन चैतद्विशेषणम्। अनेन च विधिविकल्पावभासिसामान्यस्यार्थक्रियासाधनविषयत्वेपि नानधिगतार्थक्रियासाधनविषयत्वमिति न तद्विषयस्य प्रामाण्यमिति दर्शितम् । तद्विषयत्वमेवास्य कुत इत्याह सम्बद्धेति [२९.२] यदर्थक्रियायां सम्बद्धं क(का)रणभावेन तत्संबन्धातदारूढत्वात्तन्निष्ठत्वादिति यावत् । सम्बद्धसम्बन्ध(ख)त्वमेवेदृशमस्य व इत्यपे- 25 क्षायां कारणे[२९.१]त्यादि योज्यम् । तथाभूतलिङ्गनिश्चयद्वारेण प्रतीयमानत्वात् कारणव्यापकसंबद्धलिङ्गनिश्चयद्वारायातम् [२९.१] उक्तं वेदितव्यम् । कार्यञ्च व्याप्यञ्च तथाऽवसीयमानं स्वकारणं व्यापकं चातद्रूपपरावृत्तं प्रत्याययतीति भावः । अनेन सर्वेणैतदुक्तं अनुमानविकल्पेन हि परमार्थतोऽर्थक्रियासाधनमेव वयादि विशिष्टदेशाद्यव१. कीदृशं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org