________________
२८०
पण्डितदुर्वेकमिश्रकृतो [पृ. २७. पं. २३कथमप्रामाण्यमित्याशंक्यं योज्यम्। तस्य निर्विकल्पकप्रत्यक्षविषयस्य निर्विकल्पकज्ञानेनाधिगमादिति । चो [२७.२३] व्यक्तमित्यस्मिन्नर्थे । न मयार्थक्रियासाधननिर्विकल्पप्रत्यक्ष- . विषयाध्यवसातृत्वं तस्योच्यते, येन त्वयैवमुच्यत इत्याह ततः परमि[२७.१९]
त्यादि। चो [२७.२१] यस्मादर्थे । ततोयमर्थः-यस्मादेवमुच्यते पूर्वपक्षवादिनेत्यर्थात् । 5 एवमभिधानेऽपि कथं तदध्यवसाय उक्तो भवतीत्याशंक्याह तत्रेति [२७.२१।।
जातिमतिरिक्तामधिगच्छतोऽस्य प्रामाण्यं भविष्यतीत्याशंक्योक्तमेवार्थमधिकविधानार्थमनुवदन्नाह जातेस्त्विति [२७.२४] । अपिः [२७.२५]अक्षमायाम् । तस्या' अर्थक्रियासाधनत्वाभावेनानर्थत्वाद्, अर्थक्रियासाधनस्यैव चार्थत्वात् । अपूर्वार्थविज्ञानत्वस्य
प्रमाणलक्षणस्याभावादभिप्रेत्य न प्रामाण्यमित्युक्तम् । 10 अनेन यः परेण विधिविकल्पस्य “ तत्रापूर्वार्थविज्ञानम्' इत्यादिना सामान्येन
प्रमाणलक्षणयोगो दर्शितः स नास्तीति दर्शितम् । योपि “ सत्संप्रयोग " इत्यादिना 'विशेषेण प्रत्यक्षलक्षणयोगो दर्शितः सोऽपि नास्तीति दर्शयन्नाह अत एवेति [२७.२५] । अतएव-जातेरर्थक्रियासाधनत्वाभावेनानर्थत्वादेव । प्रत्यक्षतापि अस्य विकल्पस्य
असंभविनी । कथं न संभवतीति आह-अर्थक्रिये[२७.२५]ति । तेन सहेन्द्रि15 याणां [२६.२६] यः संप्रयोगः सम्बन्धस्तस्या अभावात् [२७.२६] ।
मीमांसकमतेन सदै(तै)व सहेन्द्रिय सम्बन्ध(बन्ढे) प्रभवति नाऽसतेत्यभिप्रायः । तदुक्तं कुमारिलेन
" भावांशेनैव सम्बन्धो योग्यत्वादिन्द्रियस्य हि" (श्लोकवा. प्र. १८) इति ।
'अस्य[२८.१३]अर्थक्रियासाधनस्य वि(साधनविषयस्य ज्ञानस्य अर्थक्रियासाधने 20 [२८.१४] वस्तुनि प्रवृत्त्यङ्गत्वादुपदर्शितार्थप्रापकत्वादिति यावत्। नेतरत् प्रमाणं
ब्रवीती [२८.१३]ति संबन्धनीयम् । इतरदि[२२.८]त्यर्थक्रियासाधनविषयं यन्न भवतीति । तद(द् )विपरीतत्वाद[२८.१४]र्थक्रियासाधने प्रवृत्त्यनङ्गत्वात्। एतदेव समर्थयन्नाह तथाहीति [२८.१४]। अप्रतारक[२८.१५]मुपदर्शि
तार्थप्रापकमित्यर्थः । लोकेपी[२८.१५]त्यत्रच्छेदो व्यक्त एव । लोके व्यवहर्तरि 25 जने । अपि व्यक्तमेतदित्यस्मिन्नर्थे ।
ननु यदि नाम तदर्थक्रियासाधने प्रवर्तकं न भवति तथापि तत् प्रापकत्वेनाविसंवाद'कतया प्रमाणं किं न भवतीत्याशंक्याह यच्चे[२८.१६]ति । अनधिगच्छन्निति (गच्छदि)ति [२८.१६] । अत्र हेतौ शतुर्विधानात् प्रवर्तते । अनधिगमादिति कारणमुक्तम् ।
१. तस्य ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org