________________
पृ. २७. पं. २३.] हेतुबिन्दुटीकालोकः।
२७९ मोदकं करण गृह्णन्केनचित्सोत्पासं पृष्टः ‘किमशुचर्मोदकमुद्गह्मासि' इति। स एवं पृष्टस्तं प्रत्य'वादीत् 'प्रक्षाल्यो(ल्या)त्रैव त्यक्षा(क्ष्या)मि' इति । सोऽयं परिव्राजको(क)मोदके(क)ग्रहणार्थो न्यायस्तदुपगमेन किम् [२६.६] । यथा च तत्र तन्मतम् 'अत्रैवत्यक्तव्य एवायं' तदा किमशुचिम्रक्षितस्यान्नस्य ग्रहणेन, वरमयं पूर्वावस्थाने नै(ए)वास्तु इत्युपालम्भस्तथात्रापि । यदि त्वभावत एवासंकीर्णरूपाणां पश्चादुत्पादोऽभ्युपेतव्यो ‘वर प्रथमत 5 एव तथाभूतानामुदयोऽभ्युपगम्यतामित्यभिप्रायः । ततस्तथाविधो(ध)स्य प्रमाणप्रसिद्धौ चायमुपालम्भाभिप्रायो द्रष्टव्यः । तस्मादि[२६.६]त्यादिना प्रकृतोपसंहारः ।
प्रत्यक्षबलेन [२६.१३] इत्यस्य तात्पर्यार्थ दर्शयन्नाह-यदि तु [२६ १३] इति । यदिः संभावयति तुर्भिनत्ति । व्यवच्छेदविषया [२६.१४] व्यवच्छिन्नरूपविषयाऽतद्रूपपरावृत्तरूपविषयेति यावत् । तथा सत्यपि स्मृतिर्न स्यात् । 10 व्याप्तिग्राहकप्रमाणानधिगतस्य विशिष्टदेशादिवर्तितदसाधारणरूपस्य ग्रहणादिति भावः ।
'अन्यरूपमिदं न भवति? इत्य(ती)यमभावप्रतीतिः केन प्रमाणेनेष्टा येनास्याः प्रामाध्यमाचार्येण निवार्यत इत्याशंक्याचार्यस्याभिप्रायं परिस्फुटयन्नाह-नाभावे[२६.२०]ति। कस्मात्पुनरेतत्प्रतीतिजनकत्वेनान्यद[भावाख्यं प्रमाणं न भवति, एषा च तत्फलमित्याह नहीं[२६.२०]ति। आक्रियते अध्यवसीयत इति आकारो [२६.२१] विशेषो व्यावृ. 15 चिरेव । किंभूत इत्याह-पाटवे[२६.२२]ति । पाटवं तीक्ष्णता बुद्धेरिति प्रकरणात् । आदिशब्दात् प्रत्यासत्तितारतम्यादेर्ग्रहणम् । पाटवा'दिप्रत्ययान्तरं स्वनिश्चया[यापेक्षत इति तत्सापेक्ष उक्तः । एतदेवोपपादयन्नाह नही[२६.२२]ति ।
अनधिगमादिति [२७.१०] वस्तुनो विशेषणत्वेनाग्रहणादिति द्रष्टव्यम् । न तु सर्वथा[5]ग्राह एव वाच्यः । अयःशलाकाकल्पस्य स्वतन्त्रस्य तेन ग्रहणम्याभिमतत्वात् । 20 म(न्य)था " निर्विकल्पकबोधेन द्वयात्मकस्यापि वस्तुनो ग्रहणम् । " ( श्लोकवा० प्र. ११८) इत्यादि विरुध्येत । इन्द्रिय सम्बधाधीनालोचनाज्ञानोत्पत्तिश्च कंथमनिष्टमात्रेण निर्वयेते(निव]ते)ति । पुनर[२७.१४]प्रथमे । वर्ण्यत [२७.१६] इति वदन्प्रमाणाप्रसिद्धतां दर्शयति । प्रख्यानं प्रकाशनं प्रतिभासनं प्रख्या। तै[मिरिकादिज्ञानस्येव प्रख्या [२७.१७]यस्य स तथोक्तः । अत एव तत्सदृश इत्यर्थः । 25
____ अथ मा भूत्सामान्यमर्थक्रियासाधनं व्यक्तिस्तावत्तत्साधनीभवति । [16b] 'तदध्य.. वसायितयैव च विधिविकल्पः प्रमाणं किं न भवतीत्याशंक्य न तत्र प्रामाण्यमिति [२७.२४] दूरस्थेन सम्बन्धः कार्यः। तस्य [२७.२३] विधेर्विकल्पस्येति प्रस्तावात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org