________________
-२७२-७८
. पण्डितदुर्वेकमिश्रकृतो [ पृ. २५. पं. १३“यद्वेन्द्रियं प्रमाण(णं) स्यात्तस्य चार्थेन संगतिः" [श्लोकवा० ४.६०] इत्यादिवचनात् स्वाभिमानात्प्रत्यक्षत्वेनेन्द्रियमुदाहरणीकृतं परेण । न पुनः प्रतिपाद्यप्रतिपादकयोर्बुद्धिसाम्य. विषयो दृष्टान्तो भवितुमर्हति । बौद्धस्यैवमनिष्टेर्वाधकाभिधानाच्चेति ।
प्रथममिती[२५.१३]त्यत्र च्छेदः सुबोध एव। आद्यमि[२५.१२]त्येतद्व्या5 चक्षाण आह आदौ [२५.१४] इति । कस्मादा[द] वित्याकांक्षायां आह विकल्पप्रवृतेरि[२५.१ ४]ति । आदौ भवमिति त्वर्थ[:] यस्यार्थस्येत्यादिना स्वलक्षणेनासाधारणस्यैवोपलक्षणाद् असाधारणविषयं स्वलक्षणमिति व्याचष्टे । इतरयो[२५.१६]विधिप्रतिषेध विकल्पयोः । उक्तमेवार्थ तथाही[२५.१७]त्यादिनोप
पादयति । . . 10 असंकीर्णरूपे[२५.२५] [अपरामिश्र(मृष्ट)स्वभावे । ___ ननु च तस्यासंकीर्णरूपता [न] स्वतः किं त्वभावांशसद्भावात् । तत्कथमेवमभिधीयत इत्याशंक्य कारणमाह तथाही[२५.२६]त्यादि। अन्यथा [२५.२८] तस्य पररूपमिश्रताप्रकारेण । स एवाभावांशः [२५.२८] पराभावो न सिद्धयेत् परात्मवदिति
भावः । अत्रैवाभ्युच्चयहेतुमाह न चेति [२५.२८] । सा [२६.१] संकीर्णरूपता .15 कथं न युक्तिमतीत्याह स्वहेतुबले[२६.२]ति । स्वहेतुबलायातस्य तद्धेतुभावेन विशेषणम् । योगपरिवर्जनं तस्यायोगात् तेन वस्तुनेति सामर्थ्यात् ।
ननु तेन तस्य संकीर्णरूपस्य विनाश ने] पराभावेन सर्वेषामेव भावानामुदयक्षणापूर्वमभावावभावक रसं जगत् स्यादिति प्रसंजयितुं युक्तं न भू(त) तेन संकीर्णरूप.
विनाशेन' वरं स्वहेतोरेवासंकीर्णरूपाणामुदयोऽस्त्वि[२६.४ति । सत्यम् । 20 यथाश्रुतिः(ते) स्यादेष दोषः । केवलमात्य तात्पर्यार्थबोधे यत्नः करणीयः। इह खलु भावाना
क्षणभनिवेपिं सहशापरापरक्षणोदयाद्वस्तुसन्तानविषया प्रतीतिरस्ति न त्वभावविष[16aj. 'यैव । अतएवं सत्त्ववार्मतथ( ? )यामुपप्लवतोत्पद्यते । उदयोत्तरकालमव्यवधानेन वस्तुविषया. च प्रतीतिः कथमुपपद्येत यदि स एवाभावः पूर्वसिद्धं संकीर्ण रूपं विनास्यादन्यसं(विनाश्यात्यदसं)कीर्णरूपमुत्पादयेत् । सति चैवं वरं स्वहेतोरेव तथाविधानामुदयो. 25 स्त्वित्युच्यत इति । हेतुत्वेनार्थक्रियाकारित्वेन वस्तुरूपत्वादभाव रूपतैव हीयेतेत्येतदुपेक्षे(क्ष्य)व चैतदुक्तं द्रष्टव्यम् ।
प्रथमं संकीर्णरूपाणामुत्पादोभ्युपेयते पश्चादसंकीर्णरूपाणामुदयमुपगन्तुम्-का पुनरत्र हानिरित्याशंक्याह किमि(२६.५]त्यादि । कश्चित्किल परिवाडशुचौ पतितं १. विनाशने च वर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org