________________
पृ. २४. पं. २७.]
हेतुबिन्दुटीकालोकः ।
इत्यस्य तात्पर्यार्थमाह न त्वि[ २४.२६]ति । कथं पुनरस्य तथा मननमनुपपन्नमित्याह नही [ २४.२७]ति । वस्तुबलभाविने [ २४.२७]ति हेतुभावेन विशेषणम् ।
स्यादेतत्-केयं विविक्तताप्रतीतिः । यदि केवलप्रतीतिस्तर्हि साऽभावसंवित्तिभन्तरेण ' नतरां प्रसिद्ध्यतीति कथं प्रत्यक्षेण तथा ग्रहणमुपवर्ण्यत इति । तदसत् । तथाहि भिन्नमभावमिच्छताऽपि वस्तूनां स्वरूपं पराननुप्रविष्टमवश्यैष्टव्यम्, अन्यथा प्रातिस्विकामेवं 5 तदभावस्यैवायोगानाम् ( ? ) । अतः पराननुप्रवेशेन ग्रह एव केवलग्रहः । इतरथेतरेतराश्रयत्वप्रसङ्गः । तावत् खल्वभावसंवित्तिर्नास्ति तदात्मवद् यावत्केवलग्रहो न भवेत् । तावच्च केवलग्रहो नास्ति यावत् नाभावसंवित्तिरिति ।
किञ्च यथा केवलोsभावोऽपरेणाभावेन विना प्रतीयते तथा भावोप्यन्तरेणापराभावं केवलः किं न मीयेत । एवमनभ्युपगमे वाऽनवस्था प्रसज्येतेति । तदाह वार्तिकालंकारे प्रज्ञाकरगुप्तः 10 "प्रपराननु [[15b] ' वेशेन प्रतीतिः केवलग्रहः । ननु केवलम्व (संवित्ति )रभाववित्तितः कुतः । सापि केवलसंवित्ति विना नेति समानता ॥
यथा वा केवलोsभावो विनाऽभावेन मीयते ।
तथाऽभा (तथा भा)वोपि नैवश्चेदनवस्था प्रसज्यते ।। " इति ।
कथं निर्विषयस्य विकल्पस्य यथादृष्टभेदस्य परमार्थविषयत्वमुच्यत इत्याह 'निश्वये
त्यादि ।
२७१
भनेनैतदुपपत्त्यपेक्षया । परमार्थशब्दयोगो वार्तिककारस्य टीकाकृता दर्शितः । लक्ष्यते चाथमाचार्यस्याभिमतः । समानो यद्वत् यादृशो दृष्ठो यथादृष्टः । स चासौ भेद एवं परमार्थः । स एव विषयोऽध्यवसायवशाद्यस्येति स तथा । इतरथा तु 20 परमार्थतोऽविषय एव ।
'परमार्थशब्दं प्रयुंजानो वार्तिककारः कथं न प्रमाद्ये (द्य ?) ति' एवं तु भट्टा' चैटेन कथं न व्याख्यातमिति न प्रतीमः ।
१. S प्रतिरत्र त्रुटित: ।
१५
प्रमाणलक्षणसामान्येन योगमुपदर्श्य प्रमाणविशेषस्य प्रत्यक्षस्यापि लक्षणेन योगं दर्शयन्नाह सदिति । इन्द्रियाणामिति व्यक्तिविवक्षया बहुवचनम् । चक्षुरिन्द्रयापेक्षया 25 ग्रन्थस्यास्य योजनायां तु इन्द्रियस्य नायनरश्म्यवयविन इन्द्रियस्यानु' मानसिद्धस्य संभार - दंशेन संयोगे संबन्धे सत्यस्य विकल्पस्य नीतोपनित्यात्मनो भावादिति ।
Jain Education International
15
For Private & Personal Use Only
www.jainelibrary.org