________________
२७०
पण्डितदुवकमिश्रकृतो [पृ. २३. पं. २८एकस्मिल्लिङ्गिनि[२३.२८] धर्मिणि ।
ननु च सामान्यरूपस्य लिङ्गत्वे तस्य चानुमानेनैव ग्रहे न प्रत्यक्षतस्तन्निश्चय उपपद्यत इत्यभिधातरि कथमिदमाचार्यायं सधूमेत्यादिना प्रत्यक्षतस्तन्निश्चयस्योपवर्णनं युज्यत इत्याशंक्याह एवं मन्यत [२३.३०] इति । 5 प्रकृत्या विभ्रमाद् [२४.१] भ्रान्तत्वात् । [15a] सामान्यं हि विजातीयव्यावृत्तिः । अयमों-विजातीयव्यावृत्तेरन्यस्य सामान्यस्याभावात् विजातीयव्यावृत्त्यवगम एव सामान्यावगमः । वासनाद्वयनिबद्धश्च विकल्पः स्वप्रतिभासमेव नियतं बहीरूपतया साधारणतया प्रतिपद्यमानो बाह्य एव विजातीयव्यावृत्त्या मया प्रतीयत
इति मन्यत इति । प्रकृत्या भ्रान्तत्वात्सामान्यस्य। स विवेचित भेदो[s]भेद एव विकल्पेन 10 प्रतीयत इत्युक्तम् ।
अथ यदि प्रकृतिभ्रान्तोऽयं विकल्पस्तर्हि कथं तस्य अतद्व्यावृत्तवस्तुप्रापकत्वलक्षणं संवादकत्वमित्याह लिविकल्पस्य चे[२४.२]ति । कस्मात्पुनर्विकल्पाभाससामान्यस्य लिङ्गं(ङ्गत्वम्) न तु धूमादिस्वलक्षणस्येत्याह नहीं[२४.६]ति ।
तस्ये २४.६]त्यादिनोपपत्तिमाह । अत्रैवोपचयहेतुं दर्शयन्नाह साध्ये[२४.७]ति । 15. अयमत्राभिप्रायः । अवश्यं हि किञ्चिदनुमित्सता धूमादिस्वलक्षणदर्शनोत्तरकालम्-'इदं
साध्यमिदं साधनम्' इति संकलयितव्यम् । सति चास्मिन् संकल्पे सतः क्षणभङ्गितया वस्तुदर्शनाभावात् । दर्शनेन च विषयिणा विषयस्य दृश्यस्या भिधानं तेन दृश्यस्य लिङ्ग(लिङ्ग)स्वलक्षणस्याभावादित्यर्थः । ततश्च कथम् स्वलक्षणदर्शनाश्रयो 'गम्यगमकभावो भवेद्
येन कल्पितधर्मद्वारको गम्यगमकभावो न भवेदिति । 20 ननु यदि प्रत्यक्षपृष्ठभाविनापि विकल्पेन सामान्यं प्रतीयते, तर्हि न्यायबिन्दौ
यदवादि तेन " अन्यत्सामान्यलक्षणं सोऽनुमानस्य विषयः 'इति विरुध्येतेत्याशंक्याह यत्तक्तमि[२४.९]ति । तदन्यस्ये २४.११]त्यनुमानोत्तरकालभावि नोऽप्राप्तप्रामाण्यस्याग्निरत्रेत्याद्याकारस्यान्यस्यापि स्वतन्त्रस्य विकल्पस्य ।
एवमपि किमर्थमवधार्यत इत्याह स्वलक्षणेति[२४.१२] । स्वलक्षणं विषयो 25 ग्राह्यत्वेन नैव भवतीति प्रतिपादयितुमित्यर्थः ।
पूर्वपक्षद्वयपूर्वकं फक्किकायाः समुदायार्थ व्याख्यायावयवार्थ व्याख्यातुं तत्र[२४.१३] इत्यादिनोपक्र मते। आदि[१]शब्दादेकविनाशे सर्वविनाशादिसङहः “प्रत्यक्षेण दृष्टवतः"
१. P दृश्यस्य लिङ्गं । N प्रतेरत्र सम्यक् पाठः । अत एव स एव मूले स्थापितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org