________________
६९
पृ. २३. प. २७. ]
हेतुबिन्दुटीकालोकः । कश्चित्कुमारिलादिः । किमाहेत्याह सामान्य[२३.७]ति । अभेदेनाभिन्नाकारं यद्विज्ञानं तदेतत्स्मात स्मृतिरूपमिति यो बौद्धो वदेत् । तस्यैवंवादिनो नूनं निश्चितं वन्ध्यासुतेऽपि विषये यत्स्मरणं तत्र शक्तता सामर्थ्यमस्तु । वन्ध्यासुतस्यापि स्मर्तुं यत्सो(मिसौ) शक्त इति यावत् कथं तस्यात्यन्ताभावस्मरणशक्ततोपकल्प्यत इति आशंकायां चूर्णकेनोपपत्तिमाह सामान्यस्याननुभूततया अन- 5 नुभूतत्वात् । एवं ब्रुवतोऽपि(ऽयं) भावः--अनुभूते हि स्मृतिर्भवति । यदि वाऽननुभूतेपि स्मरणमुपपद्यते तदा वन्ध्यासुतेप्यननुभूतत्वाविशेषात्स्मार्ता बुद्धिः किं न कल्प्यत इति ।
अङ[२३.१८]शब्दोऽध्येषामन्त्रणे। किंशब्दः सामान्यतः प्रश्ने । पुनःशब्दस्तुविशेषतः । तेनायमर्थः- युष्मानेवाध्येष्य सामान्यतो विशेषतश्च एतत्पृच्छाम इति । शतं संवत्सराः पुरुषायुषम् । अत्र स्वातन्त्र्यपरिजिहीर्षया तत्कारिका उपक्षिपन्नाह- 10 तथा चाहे[२३.१९]ति । यस्य[२३.२०] बौद्धस्य मतेन । तस्य एकलिङिनि[२३.२८] गतिर्युगसहस्त्रेषु बहुष्वपि न विद्यत [२३.२९] इति सम्बन्धः कार्यः।
आनन्त्यात् [२३.२८] इति हेतुः । तस्यैव समर्थनं सर्वम् ।
अलिङ्गजमेवानुमानं भविष्यतीत्याह-नचे २३.२१]ति । चो यस्मादर्थे । 15 'लिविनिर्मुक्तं[२३.२१] लिङ्गरहितम् । असामान्यस्य स्वलक्षणस्य अनवगतमेव लिङ्ग लिङ्गिज्ञानं करिष्यतीत्याह-नचे[२३.२ ३]ति । चः पूर्ववत् । प्रदीपयोग्यतया गमकत्वस्याभावादिति भावः । तस्य[२३.२ ४] सामान्यरूपस्य लिङ्गस्य । तस्य लिङ्गसामान्यग्राहिणोऽनुमानान्तरस्योदभूतिः [२३.२५] जन्म । किंभूताल्लिङ्गात् सामान्यज्ञानसंहितात् सामान्यज्ञानयुक्तात्सामान्यात्मना ज्ञातादिति यावत् । अस्य च लिङ्ग- 20 सामान्यस्य ज्ञायमानस्यानुमेयत्वम् , प्रत्यक्षेण त्वन्मते सामान्याग्रहणादिति भावः । तस्य लिङ्गस्य सामान्यस्योद्भवस्तदुद्भवो[२३.२६] लिङ्गेनापरेणेत्यर्थात् । तेनापि सामान्यरूपतया अनुमानान्तरादेव ज्ञातेन तथाभाव्य'मित्यभिप्रायेणाह-अनुमानान्तरादेव ज्ञातेने[२३.२७]ति । अस्त्वेवं का क्षतिरित्याह एवं चे २३.२७]ति ।
नन्वेवं लिङ्गानुमानस्यैवानन्त्यं न तु लिङ्गयनुमानस्य तत् कथंलिङ्ग यनुमानानामित्युक्त- 25 मिति चेत् । सत्यं, केवलं तदेवाचं लिङ्गं ज्ञापकहेत्वधिकारात् ज्ञायमानसामान्यरूपतया चानुमानता(०मानेन) निश्चीयमानं लिङ्गि जातम् । स्वलिङ्गथपेक्षया लिङ्गमपेक्षत(मपीप्यत) इति अभिप्रायाददोष एव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org