________________
२६८
पण्डितदुकमिश्रकृतो [पृ. २२. पं. २०यदि तथाभूतवस्तुद्वयादन्यो नास्ति तर्हि कथम् 'अनयोरयं संबन्धः सम्बन्धिनौ चैतौ' इति व्यवहार इत्याह-तेनेति[२२.२०] । येन तथाभूतवस्तुद्वयानुभवाश्रयतः समारोपितः सम्बन्धः तेन कारणेन व्यवहार[२२.२१]श्च 'अयं धर्मी अयं धर्मः' इति शाब्दोऽभिप्रेतः । धर्मधर्मितये[२२.२१ पतीत्थंभूतलक्षणा चेयं तृतीया। एतद्5 व्यवहारे कारणमाह भेदान्तरे[२२.२०]ति । न त्वयं परमार्थिको व्यवहार इत्यर्थः ।
ननु च तथाभूतवस्तुद्वयादन्यस्य सम्बन्धस्याभावात् , तस्य च प्रत्यक्षेण ग्रहणात् सम्बन्धनिश्चयस्तथाभूतवस्तुद्वयकृतोस्तु, लिङ्गसामान्यनिश्चयस्तु कथं तत्कृतः। प्रत्यक्षेण लिङ्गसामान्यस्याग्रहणात्। न च विशेषो लिङ्गमित्याशंक्याह सामान्ये २२.२२]ति ।
अपिशब्दः सम्बन्धव्यवहारात् सामान्यव्यवहारस्यानतिशयख्यापनार्थः ।। 10 स्यादेतत्-अनुगतस्य वस्तुनोऽभावेऽनुगतप्रत्ययो निर्हेतुकः कथं भवेदित्याह तेषामेव [२२,२३] इति । न स्वलक्षणस्य विकल्पजनने साक्षाद् व्यापारस्तस्यातद्विषयत्वादित्याहअनुभवे[२२.२३]ति । यदि ते विजातीयखभावास्तथापि कथं तत्प्रत्ययहेतुत्वं तेषामित्याह-विजातीये[२२.२४]ति । एकाकारस्याभिन्नाकारस्य परामर्षः, स
चासौ प्रत्ययश्च तत्र] हेतुत्वात् । आचार्यवचनेनैतत्संस्यन्दयन्नाह तथा चाह 15 [२२.२५] इति । [एकस्या]भिन्नस्य प्रत्यवमर्षस्तदेवेदमिति सम्बन्धाहार(समन्वाहार)
इति विग्रहः कार्यः न त्वेकश्चासौ प्रत्यवमर्षश्चेति। एवं हि प्रत्यवमर्षश्चा(स्या)पि भिन्नत्वात् कथमेकत्वं ? तदपरैक परा)मर्शादिति यद्युच्येत तदा तस्यापि तत्त्वं तत इत्यनवस्था । तथा च यावदन्तिमस्य तथात्वं न ज्ञायते तावदादिमस्यापि तत्त्वव्यवस्था न स्यात् ,
असत्यां च तस्यामेकधीहेतुभावेन व्यक्तीनामप्यभिन्न[त्वमापयितुं न शक्यतेत्यलमिह 20 विस्तरेण ।
यस्मात्तैरय विकल्पो जन्यते ततः [२३.१] ।
अनुभूतालम्बनं ज्ञानं स्मृतिः, अत्र तु सामान्य केनानुभूतमयं गृह्णाति, येन स्मृतित्वं स्यादित्याह तत्प्रतिभासिन [२३.१] इति ।
विजातीयव्यावृत्तं स्वलक्षणं प्रत्यक्षेणैक्षितम् , न तु व्यावृत्तिरित्याह नही[२३.३]ति । 25 स्यादेतत्-विकल्पानामनर्थवाहितया बाह्यार्थासंस्पर्शादेव कथं गृहीतग्राहित्वलक्षणं
स्मृतित्वमित्याश्चर्य उपसंहारापदेशेनाह-तस्मात् [२३.४] इति । यद्येवं द्वैधमपि विकल्पः प्रतिपत्तुरध्यवसा[14]b' यवशाद्गृहीतंबाह्यार्थप्राहितया स्मृतिरुच्यते, तर्हि परमार्थतः किंविषय इत्याह वस्तुत [२३.७] इति । यतोऽयं विकल्पः परमार्थतो निर्विषयोपि प्रतिपन्नध्यवसायानुरोधात्स्मृतिरभिप्रेतः ततः [२३.७] तस्मात् । यदेतद्वक्ष्यमाणकम् आह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org