________________
पृ. २२. पं. १९.] हेतुबिन्दुटीकालोकः ।
२६७ शिष्याणां सुखप्रतिपत्त्यर्थं सधूमं ही[२२.४]त्यादिफक्किकायाः समुदायार्थमुपदर्शयन्नाह अयमत्रे[२२.५]ति ।
ननु चाविकल्पकं प्रत्यक्षं नेयतो व्याधान( व्यापारान् )कर्तुं समर्थं तत् कथं तन्निबन्धनस्तन्निश्चय इत्यभिधातरि कथमिदं 'सधूमं ही'त्यादिवचो न प्लवत इत्याशंकायाम् अत्रे[२२.५]ति । हिः [२२.५] अवधारणे ।
5 एकस्य साक्षादितरस्य सामर्थ्याजननात् विधिप्रतिषेधविकल्पद्वयं जनयती[२२.९]त्युक्तम् ।
कदाचिद्विधिविकल्पं कदाचित्प्रतिषेधविकल्पं जनयतीत्यभिप्रायेण चैतदुक्तम् । एवमेतदि[२२.१०]ति यथायोगं विधिविकल्पो दर्शितः । नान्यथा [२२.१०] इत्यादि यथायोगं प्रतिषेधविकल्पः। किमनुभूतेऽर्थे विकल्पोदयः ? नैवमुच्यत इत्याह 10 'यथाभ्यासमि[२२.११]ति (यथानुभवमिति)। यद्यनुभवानतिक्रमेण विकल्पोदयस्तदा सर्वत्रांशे तदुदयप्रसङ्गः इत्याह अभ्यासे[२२.११]ति । अभ्यासादिसहकारिणामित्यभ्यासादिसहकारिकाणामिति बोद्धव्यम् । न तु विकल्पस्योत्पद्यमानाभ्या(मानस्याभ्या)सादिः सहकारी, अनुभवस्य तु भवति । केचित्( कश्चित् ) खलु यन्नम(?)नुभयो भूयोदर्शनलक्षणाभ्याससहकार्यनुरूपं विकल्पं जनयति । अस्याप्य- 15 यमर्थः-नानुभव इत्येव विकल्पं जनयति । किंतु कश्चित् पुनःपुनस्तत्रोत्पद्यमानस्तादृशो भवति। यथा रूपकादिपरीक्षकाणाम् । कश्चित्तु स्वभावातिशयलक्षणं पाटवमपेक्ष्य जनयति । अस्याप्यय[14a] 'मर्थः-कश्चिदनुभवः प्रकृत्यैव पटीयान् जायते यस्तत्र क्षमः । यथा योगिनां सर्वत्र । अस्मदादीनां के(क्व )चिद्विषये । क्वचित्पुनरविद्यानुबन्धात्सदृशापरापरोत्पादविप्रलब्धश्च सर्वदैव तिरस्कृतपटिमा यो नैव तत्क्षमो भवति । यथाऽग्दिर्शिनां 20 क्षणिकत्वादौ । पाटवादी[२२.१ १ ]त्यत्रादिग्रहणात् प्रत्यासत्तितारतम्यादयो गृह्यन्ते ।
स्यादेतत्-सम्बन्धोऽयमिति निश्चयाऽननुभवनात्कथं सम्बन्धनिश्चयस्तन्निबन्धन उच्यत इत्याशंक्याह . तथाही २२.१३ ति । पाश्चात्यविधिप्रतिषेधविकल्पजननं यथोक्तः प्रकारस्तेन ।
ननु सम्बन्धस्याधाराधेयलक्षणस्याननुभवात्कथं तन्निश्चयस्तन्निबन्धन उपवर्ण्यत इत्याह 25 न चे २२.१६]ति। तथा [२२.१९] औत्तराधर्येण अवस्थितमर्थव्यमाश्रित्य [२२.१९] गृहीत्वा । १. यथानुभवमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org