________________
पण्डितदुवेकमिश्रकृतों [पृ. २१. पं. १६एवमसौ प्रत्यवतस्थ इति कथं ज्ञायत इत्याशंक्याह तेन ही[ २ १.१६]ति । हिर्यस्मात्तेन कुमारिलेन । ज्योतिष्टोमादेः श्रेयःसाधनत्वं धर्मो बोद्धव्यः । यदाह शबरस्वामी “को धर्मो यः श्रेयःसाधनः" [शाबरभा० १.१.२] इति ।अतएव कुमारिलोप्याह
" श्रेयःसाधनताप्येषां नित्यं वेदात् प्रतीयते " [ श्लोकवा० २.१४ ] इति । 5 जैमिनिसूत्रे शबरखामीयमेतद्भाष्यम् [२१.१७] । एतद्भाष्यमिति चार्थद्वारेणोक्तम् । न त्वीदृश एव भाष्यग्रन्थः । प्रमाणस्येति विवक्षायाम् अनुमानादिन [२१.१८] इति निर्देशः । . कदा तत्पूर्वकं तदित्याह यदेति। निर्विकल्पा कल्पनाशून्या इन्द्रियस्य धीः
[२१.१९] । सैव कथं तथेत्याह स्मृती[२१.१९]ति । 10 यस्मादर्थे वा [13b] 'यदाशब्दो द्रष्टव्यः। विकल्पनमन्तरेणापि कथं न तथा ग्रहणमित्याह
नचे.२१.२०]ति । लिङ्गादेः प्रत्यासन्नत्वात् लिङ्गादिकमेवाऽविकल्प्येति द्रष्टव्यम् । तथा सम्बद्धत्वेन गृहीतिर्ग्रहणम् । इतिः आक्षेपस्याकार दर्शयति ।
प्रत्यक्षेणाग्रहणं कस्येत्यपेक्षायामाह लिङ्गादे [ २१.२३ ]रिति । कुत इत्याहअविकल्पनादिति । तदित्यग्रहणम् । नेति निषेधयति । विकल्पस्यापीष्टत्वात् प्रत्यक्षेणेति 15 प्रकरणात्। किं विकल्पमात्रस्य तथोत्पत्तिरित्याशंक्याह-अर्थ[२१.२ ४]ति । अर्थरूपमुपकारि यस्य, तस्माद्वोपकारोप्यस्तीति तथा ।
ननु निर्विकल्पसविकल्पभेदेनार्थविज्ञानस्य द्वैते सतीदं वक्तुं युज्यते । न चैतत्संभवीत्याह अस्ती[२१.२५ ]ति । हिर्यस्मादर्थे । विकल्पात् पूर्वं भावात् प्रथमम्
[२१.२५] आद्यम् बालादिषु तथा विधविकल्पानिष्टेनिं दृष्टान्ततयेष्टम् । शुद्धवस्तुजम् 20 [२१.२६] शब्दस्मरणरहितवस्तुजमित्यर्थः । ततः [२१.२७] आलोचनाज्ञानात्
परमुत्तरकालम् । पुनरप्रथमे । जात्यादिभिर्विशिष्टं यया बुद्ध्याऽवसीयते सापि न केवलमालोचनाज्ञानमिति अपिशब्दः । एवं च ब्रुवतोऽयंभावः-यद्यपि प्रथम निर्विकल्पकबोधेन द्वन्यात्मकं 'वस्तुगृहीतमिन्द्रियसंबन्धात् तथापि न विशेष्यविशेषणभावा
पत्त्या गृहीतम् , अयःशलाकाकल्पयोर्जातितद्वतोः साक्षात्करणात्। तथा गृह्णत्त्विदं प्रमाणमेवेति। 25 इतिना[२२.१]उक्तः आकारं दर्शयति । उक्तं [२२.३] सामर्थ्यादेतदुक्तम् । न तु
साक्षात् तेनोक्तमेतत् । यस्मात् तेनैवं ब्रुवता सामर्थ्यादेतत् प्रकाशितं ततः [२२.३] तस्मात् । तेन कुमारिलेन उपदर्शितो यो दोषः सौगतानामेव प्रत्यक्षेण लिङ्गाद्यग्रहणाम्' इत्येवंलक्षणस्तस्य प्रतिविधानाय ।
१. उपवर्णित S।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org