________________
पृ. २१. पं. १६. ]
हेतुबिन्दुटी कालीकः ।
२६५
66
'प्रसङ्गतो निश्चयरूपात्प्रस्तावात् । पक्षधर्मस्तदंशेन व्याप्तो हेतुः " इति वचनात् । सूत्रस्य क्रमेण परिपाट्या । सर्वस्येति सर्वस्यैवेत्यवधारणीयम् । प्रत्यक्षानुमानाभ्यामिति सामस्त्यनिषेधो बोद्धव्यो न तु कस्यचित् । द्वाभ्यामन्यस्य पुनरेकै नेति ।
अविकरुपनत्वात् प्रत्यक्षस्य कथं ततो निश्चयस्तस्य सम्भवीत्याशंक्याह - प्रत्यक्षेण 5 'प्रती [२०.८ ]ति । चो [२०.८] यस्मादर्थे । सामान्यविकल्पजननादि[२०.९]ति धूमादिलिङ्गप्रत्यक्षाभिप्रायेणोक्तम् । उपचारत [२०.९] इति प्रत्यक्षतो निश्चय इत्युपचारतः उच्यत इति ।
ननु सामान्यं लिङ्गं कथं तस्याध्यक्षतो निश्चय इत्याह यद्यपी [२०११ ]ति । यस्तु[२ ०.१९] इत्यादिना उद्यो' तकरमतमा शंक्यते । अग्निसम्बन्धी [२०.१९] 10 बह्निमान् । स देशोऽप्रत्यक्षोऽघोदेशस्य ताद्रूप्यादित्याशयः । किं तथाभूतं नभोस्ति ? सत्त्वे वा किं तस्य भागोस्तीत्याशंक्य बौद्धाभिप्रेतमेव दर्शयन्पर आह आलोके[ ०.२० ]ति । आदिग्रहणात् तमसो ग्रहणम् । तदुक्तम् " आलोकतमसी नभः " इवा (हत्या) शयः । प्रदेशे वस्तुतः साधर्म्या (साध्या) धा' र इति द्रष्टव्यम् । तर्ह्यनुमानोत्सेद एव प्राप्त इत्याशंक्य पुनरेव व्यवस्थां कुर्वन्नाह तस्माद् [२०.२२] इति ।
15
कथं पुनः स एव धर्मी स एव हेतुर्भवितुमर्हतीत्याह साग्निः [२०.२२] इति । अनेन धूमविशेषस्य धर्मित्वं धूमसामान्यस्य हेतुत्वं दर्शयति । समानचोद्योपदर्शनमुखेन तुल्या ( तस्यापि [ २०.२३ ] इत्यादिना सिद्धान्ती प्रतिविधातुमुपक्रमते । तस्यैवं मतेः । तावत [ २०.२७] इति दृश्यादृश्यविभागवतः धूमेपि धर्मिणि उक्तेन प्रकारेण एतत्संगच्छत इति साम्याभिमानशष्यं ( शस्यं) परस्य सा (शा) तयन्नाह प्रदेश 20 एव चे[ २१.१ ]ति । चशब्दः परमताद्विशेषार्थः । अन्यत्रोपलभ्यमानस्यान्यदेशापेक्षया गमकत्वं कथमित्याह देश 'काले [ २१.२ ]ति ।
आचार्येणाप्येतदभिमतमित्युपदर्शयन्नाह यदाचे (हे ) [ २१.३ ]ति । अतश्चैवमभ्युपेतव्यमिति दर्शयन्नाह यथे[ २१.९]ति । अनुमानहेतुत्वादनुमानं प्रत्यय भेदभेदित्वादि । धर्मिणो वा [ २१.१५] स्वरूपग्रहणमपि तावत्कथं युज्यते इत्येव योज्यम् । 25 तयोः सम्बन्धस्य [ २१.१५] आधाराधेयलक्षणस्य ग्रहणम् । इतिः [ २१.१६ ] प्रत्यवस्थीयमानस्याकारं दर्शयति ।
१. अत्र S प्रतेरेकं पत्रं नष्टम् ।
२. S प्रतौ प्रति ' इति नास्ति ।
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org