________________
10
२६४
पण्डितदुर्वेक मिश्रकृतो
[ पृ. १८. पं. २३
वयविनं प्रदेशं वा धर्मिणमाधाय + साग्नित्वसिषाधयिषया धूमत्वं धूमवत्त्वं वा सामान्यं तुमुपाददत इति ।
5 एतदपि तद्वचनेन संस्यन्दयन्नाह - तथा च [१९.१] इति । द्विष्ठत्वात्सम्बन्धस्य कथमुभयत्रैकाकारताव्याप्तिर्न स्यादित्याशंक्य यद्यपि इत्यनेन द्विष्ठं सम्बन्धं वास्तव - मभ्युपगम्यापि प्रतिविधत्ते । कयोरसावित्याह- अङ्ग [ १९.२ ] इति । अंगेज्ञप (अङ्गेर्ज्ञानप)रस्य ग्रहणादग्यते लिङ्गयते प्रतीयतेऽनेन परोक्षार्थ इत्यङ्गं लिङ्गम् । तेन लिङ्गलिङ्गिनोरित्यर्थः ।
इह [१८.२३] व्याप्तिवत्सगमकत्वे आख्यातं [१८.२३] प्रकाशितम् । तथाही [१८.२३ ] त्यादिनैतदेव समर्थयते ।
20
किंभूतः स इत्याह । सहे १९.२ ]ति । तयोरेव युगपद्भाविप्रकृतत्वात् । द्विष्ठत्वाभ्युपगमादेव च सहभावित्वाभ्युपगमो 'प्यायातः । ' यद्यपि ' शब्दसान्निध्यात् ' तथापीत्यर्थतो द्रष्टव्यम्। तस्य संबन्धस्य वृत्तिर्वर्तनम् । तयोर्लिङ्गलिङ्गिनोरित्यर्थात् । कयोरिव सेत्याहआधाराधेययोरिति सप्तम्यन्ताद्वतिः ।
यथा आधाराधेयभावलक्षणः सम्बन्धो द्विष्ठोपि नैकरूपया वृत्त्या द्वयोर्वर्तते यत एवैक15 सम्बन्धयोगेपि नाधारस्या ' धेयत्वमाधेयस्य वाssधारत्वं तथा लिङ्गलिङ्गिनोर्व्याप्तिरपि धूमत्वादावन्यथा, अन्यथा च वह्नित्वादौ । अत एव घूमत्वादिरेव व्याप्यतया गमको न प्रमेयत्वादिः । वह्नित्वादिरेव व्यापकतया गम्यो न तु तार्णत्वादिर्नापि धूमो गम्यो वह्निर्गमक इति ।
यत एवं तस्य वृत्तिः तेन [१९.४] कारणेन । इती [१९.४]त्यादिना प्रकरोपसंहारः ।
अन्यत्र' [१९.१०] इति न्यायबिन्दौ । विनिश्चयेपि " त्रिरूपाल्लिङ्गात् 1 दिनोक्तः ।
wwwm
स्पर्धाSवस्थानं कक्षा | तुल्या कक्षा [१९.२२] यस्य स, तद्भावस्तत्ता, सूचनं प्रकाशनं तदेव अर्थः प्रयोजनं यस्य ‘वा’शब्दस्य ।
" सामर्थ्यमिच्छतः कीर्तेर्नष्टं द्वित्वावधारणम् " इति
- तदपहस्तितम् द्रष्टव्यम् ।
""
Jain Education International
परमार्थतस्तादात्म्यात् [ १९.२४] इति ब्रुवता तदुपपादयता चान्वयेन 25 व्यतिरेकगतौ व्यतिरेकेण चान्वयगतौ स्वभावहेतुरधिकृत इति दर्शितम् । तेन
यत् के [ 13 ] 'नचिदुपक्षिप्तम्
For Private & Personal Use Only
इत्या
तस्याः
www.jainelibrary.org