________________
पृ. १८. पं. २०. ]
बिन्दु टीकालोकः |
अंशश्च [ १७.२२] इति । चो यस्मादर्थे । अंश इवांशो यथांशोंऽ शिविशेषणस्तथा धर्मोपि धर्मिविशेषक इत्यभिप्रायः । पक्षशब्देन समुदायवचनात्तदेकदेश एवांशो वक्तव्य इत्याह पक्षशब्देन [ १७.२२] इति । तस्यैवैकदेशः किं नोच्यत इत्याह तस्य 'च [ १७.२२ ] इति ।
धर्माणां धर्माधारत्वासंभवादि [ १७.२८ ]ति पूर्वं बोद्धव्यम् । यतो 5 व्याप्ये सति व्यापकस्य नियमेनोपस्थापनमेव व्यापकनिष्ठा व्याप्तिस्तत्करणात् । व्याप्यस्यैव [ १८.३ ] न तु व्यापकस्य व्याप्तताप्रतीतिरविनाभाविता प्रतीतिः । किमपेक्षा सा तथा प्रतीतिरित्याह "व्यापके [ १८.२ ]ति । व्यापकभावमपेक्षते " ईक्षिक्षमिभ्यांञ्च" [ वा० १९८१ ] इति कर्मोपपदे णः । व्यापकस्य भावं नियमविषयं रूपमपेक्ष्य पर्यालोच्य तथा प्रतीतिर्भवतीत्यर्थः ।
तत्र भावमेवेत्यभिमतमवधारणं प्रदर्यानभिमतं निरा [12b]' कुर्वन्नाह न त्वि[१८.३]ति । नापि तत्रैवे [ १८.५ ]ति । अवधार्यत इति वर्तते । साधारणः [१८.६]सपक्षासपक्षसाधारणः । दोषान्तरसमुच्चयार्थश्वकारः । वा[ १८.८ ] शब्दों व्यापकधर्मापेक्षया पक्षान्तरमवद्योतयति ।
२६३
तत्रैवे[ १८.८ ]त्यवधारणमभिमतं प्रतिपाद्यान्यथावधारणं निषेधयन्नाह अत्रापीति 15 [ १८.९]।
तदेव सूत्रकारवचन संस्यन्दयन्नाह तदुक्तमि[१८.१७]ति । 'लिङ्गे साधने स लिङ्गी साध्यं भवत्येव । अनेन व्यापकधर्मगता व्याप्तिर्दर्शिता । इतरल्लिङ्गं पुनर्लिङ्गिन्येव साध्य एव भवतीति । अनेन व्याप्यधर्मगता व्याप्तिरुक्ता । उक्तेन प्रकारेण नियमस्यावधारणस्य विपर्यासे वैपरीत्ये - विपर्यासश्च एकत्रायोगव्यवच्छेदेन 20 विशेषणा (णम) परत्रान्ययोगव्यवच्छेदेन तस्मिन्विपर्यासे सति लिङ्गलिङ्गिनो[र]सम्बन्धो(ऽ)व्याप्तिरित्यर्थः । तेन [ १८.२० ] व्याप्तेरुभयत्र एकाकारताप्रतिपत्तिप्रतिषेधप्रदर्शनेन । अयञ्च दोष आचार्येण ये धूमं संयोगिनं हेतुमिच्छन्ति, तान्प्रत्यभिहितो न तु नैयायिकान्प्रति । तैर्धूमस्य एकार्थसमवायित्वाल्लिङ्गत्वेनोपगतत्वात् । ते हि धूमा१. मुद्रिते 'च' रहितः पाठः कल्पितः किन्तु आलोकसम्मतः पाठः 'तस्य च एक०' इति ।
२. अयमेव सम्यक् पाठः न तु यथा कल्पितोऽस्माभिः ' धर्माणां धर्मान्तरत्वाभावात् '
इति ।
३. आलोकसम्मतः ' व्यापकभावापेक्षा ' इति पाठः सम्पक्, न तु यथा अस्माभिः कल्पितः ।
४. ऐतेन-S
३५ हे.
Jain Education International
For Private & Personal Use Only
10
www.jainelibrary.org