________________
२६२ पण्डितदुबैकमिश्रकृतो
[पृ. १७. पं. ४ममन्दमन्दाक्षेणोच्यत इति । धर्मोत्तरादिभिर्विगर्हितेऽप्यस्मिन्मते गतिरियं अस्मा • भिरुपवर्णिता । अत्रापि तु यत् किञ्चिद्वाच्यं तदस्माभिरेव वयथ्यविचारे दर्शितमिहतु मा भूद्विरसीभाव इति नोच्यत इति ।
ननु विशेषणेन सहोदितो निपातोऽयोगं व्यवच्छिनत्ति । “विशेषणविशेष्या5 भ्यामिति " वचनात् । अत्र च पक्ष एव व्यवच्छेदकवद्विशेषणमिति तेनैव सहावधारणं वाच्यम् । तथा च पक्षस्यैव धर्म इत्युक्तौ तदवस्थो दोष इति चेत् । नैतदस्ति । “विशेषणविशेष्याभ्याम् ” इत्यत्र शाब्दी गतिमनाश्रित्याश्रितत्वाद्विशेषणम् , आश्रयत्वाद्विशेष्यमित्यार्थेन विशेषणविशेष्ययोरभिप्रेतत्वात् । सति चैवं पक्षो न विशेषणम् , आश्रयत्वाद्विशे
प्यस्तु भवति, धर्मस्त्वाश्रितत्वाद्विशेषणमेव न विशेष्य इति । तेन सहोदितनिपातोऽयोगमेव 10 व्यवच्छिनत्तीति सर्वमवदातम् ।
चैत्रो [ १७.४ ] नाम कश्चित्पुरुषः। तेनैवाकारेण ज्ञातस्य ज्ञानाय प्रश्नानुपपत्तिः । सामर्थ्यम् [ १७.११ ] । आदि[ १७.१११ शब्दात्प्रकरणादिसंग्रहः । प्रकृष्टे अनन्यसाधारणे गुणेऽतिशये वृत्तिर्यस्य स [ १७.१२ ] तथा । तदुक्तं “ न हि विशेषसन्निधिरेव सामान्यशब्दानां विशेषावस्थितिहेतुरपि तु प्रकरणसामर्थ्यादिकमर्पय15 (मपि'' इति । पार्थे ही[१७.१२ ]त्यादिनैतदेव समर्थयते । पार्थः पृथायाः
कुन्ताया अपत्यम् । योगरूढिश्चैषा तेनार्जुन एवाभिधीयते। श्रोतुः [१७.१९ ]अर्थात्प्रष्टुः प्रतिपाद्यस्येति यावत् । तादृशं [१७.१३] सातिशयं धानुर्द्धर्य(यं योदान्य गामि निषिध्यते ।
कस्मात्तत्र धनुर्धरत्वमात्रमित्याह प्रतिपाद्ये[ १७.१५]ति । 20 परामृष्यते' [ १७.२१] वाच्यत्वेन परिगृह्यते ।
अनभिमतं प्रतिषेधयति न धर्म [ १७.२१ ] इति । कुत इत्याह-धर्मस्ये[१७.२२]ति ।
ननु कैषा वाचोयुक्तिर्द्धर्मस्य धर्मासंभवादिति । किं धूमादीनां आश्रितत्वेन धर्माणां धूमत्वपार्थिवत्वादयो धर्मा न सन्ति ? येनैवमुच्यत इति । सत्यमेतद्वा केवलं 25 बोधे यत्नः करणीयः। धर्मशब्देनेह साध्यो वयादिरभिप्रेतः स च तस्य धर्मो नास्त्येवेति किमवद्यम् । अथात्र केन धर्मोऽभिहितो येन धर्मस्य धर्मभावप्रतिपादनं युज्यत इत्याह
१. आलोकसम्मतः ' सामर्थ्यादिना ' इति सम्यक् । न तु यथा मुद्रितः 'प्रकरण सामर्थ्यादिना' इति ।
२. परामृश्यते--s
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org