________________
पृ. १६ पं. २० ] हेतुबिन्दुटीकालोकः।
२६१ पक्षत्वेन तस्य सपक्षत्वं निराक्रियत इत्याह साध्यत्वेने[१६.६]ति । इच्छाव्यवस्थितलक्षणत्वेन तस्यावास्तवत्वं दर्शितम् । तेन हीनबलत्वम् साध्याविनाभावित्वस्याविनाभावादिति सम्बन्धः । कस्मात्तन्निबन्धनं तदित्यपेक्षायामाह-अन्यथा [१६.८] इति। तस्याविनाभावित्वस्यायोगादयुज्यमानत्वादिति । इदम् [ १६.१०] अत्राननुवृत्तेरिति । __ सत्यमि[ १६.१ ० ]त्यादिना प्रतिविधत्ते । कस्यचिदि[ १६.१४ ]ति 5 शिंशपात्वादेर्वृक्षत्वादिव्यवहारसाधनस्य । यदापि तथाविधस्य हेतोरन्यत्वे च प्रसिद्धेन प्रतिबन्धेन कार्यं तदाप्यन्यत्राप्यननुवर्तमानः कथं दुष्येदित्याह तदा ही[ १६.१८ ]ति। विरुद्धोपि विपर्यये सम्यग्धेतुनेति चेति विपर्ययानिश्चितवृत्तित्वमुक्तम् । तस्मिन्धर्मिणि संशयहेतुः स्यात् । साध्यभावाभावयोरित्यर्थात् । ___ साध्यभावाभावविमुक्त एव धर्मी भविष्यति प्रकारान्तरसद्भावात् , तत् कथमसौ 10 तत्र संशयहे'तुः स्यादित्याशंक्याह-तदुभयबहिर्भावायोगात् [ १६.१९] साध्यवृत्तिव्यवच्छेदे वह्निभावाऽयोगात् । कस्येत्याशंकायामाह तद्धर्मिणः[ १६.१९] तस्य हेतोराश्रयस्येति । कस्मात्पुनस्तेन साध्यधर्मव[ता । तदभाववता वा भवितव्यः (व्यम्) प्रकारान्तरस्यापि सम्भवादित्याह साध्ये १६.२० ]ति। अन्योन्यव्यवच्छेदरूपाणामेकाभावस्या परविधिनान्तरीयत्वात् कुतः प्रकारान्तरं संभवतीति भावः । 15
स्यादेतत्-अन्तर्व्याप्तिप्रसाधकादेव प्रमाणाद्विवादाध्यासितस्य धर्मिणस्तद्धमत्वज्ञानान्मौलस्य हेतोः कथमतिव्यक्तमपि वैयर्थ्य भदन्तधर्माकरदत्तेन न लक्षितमिति । अहो अभिप्रायापरिज्ञानविलसितम् । एवं हि ब्रुवतोऽस्यायमाशयः-दृष्टान्तधर्मिणीव साध्यधर्मिण्यपि सर्वोपसंहारेण धर्मानवच्छेदेन व्याप्तिग्रहे मौलादेव साध्यसिद्धेः कुतो वैयर्थ्यम् । इतरथा दृष्टान्तधर्मिण्यपि विपर्यये बाधकप्रमाणवृत्ताविष्यमाणायां कथमिव मौलो 20 हेतुर्वैयर्थ्य नाश्नुवीत । तथाहि तत्रापि तत्प्रवृत्तं धर्मिसामान्योपग्रहेण व्याप्ति प्रतिपद्यते । 'तथा च पक्षीकृतस्यापि जिज्ञासितर्धमवत्त्वं तत एव सिद्धमिति ।
अथोच्यते-बाधकप्रमाणमाहात्म्यात्सत्त्वस्य क्षणिकत्वसिद्धावपि किं न शशविषाणादेस्तत्त्वं सिद्धं ततस्तद्व्यावृत्तिरूपताप्रतिपादनार्थं धर्मिणोऽवश्यं 'संश्चायम् शब्दादिः' इत्यर्थः [उप]संहर्तव्यः । इतः सत्त्वहेतोरेवासंहृतात् शब्दादेः क्षणिकत्वावगति स्मन्मते हेतोर्वैयर्थ्यमिति। 25
ननु समानमिदमस्माकमपि । तथाहि व्याप्तिग्राहकात्प्रमाणात्तत्र प्रवृत्तादपि धर्मिविशेषापरिग्रहेण प्लवमानाकारा प्रवृत्तिः क्षणिकत्वसत्त्वयोस्तादात्म्यग्राहिणी जाता न तु प्रवृत्त्यङ्गम् । 'य(स)चेदम् ' इति तु दर्शिते सति 'इदं क्षणिकं शब्दादि' इति प्रवृत्त्यङ्गं प्रतीतिरुपजायते, यतो विशिष्टे देशादौ प्रवर्तत इति। कथमस्मन्मते मौल[12a] 'स्य हेतोर्वैयर्थ्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org