________________
२६०
___ पण्डितदुवैकमिश्रकृतो [पृ. १३. पं. २२कस्मात्तत्संबन्धनार्थं नाशकनीयमित्याशंकायां तदभिधानीयं तदभिव्यक्तत्वादनेन नोक्तम् । धर्मों हेतुस्तदंशेन व्याप्त इत्युक्ते वा [ सक]लोपि हि जानात्येव । न तस्यात्मन एवांशेन व्याप्त इत्यभिप्रायात् । __ आचार्येण [ १३.२२] इति । आचार्यदिमागेन । 5 पक्षस्य धर्मिणो धर्मस्यानुपपत्तेः न तावत्कर्मधारयोऽत एवासंख्यापूर्वकत्वा'च्च न द्विगुः । अनव्ययत्वाच नाव्ययीभावः । यच्छब्दवाच्यासंभवात् , न हि स एव धर्मी स एव धर्म इत्यर्थविरोधाच्च समासान्तस्यानिच्प्रत्ययप्रसक्तेश्च न बहुव्रीहिः । नपुसंकलिङ्गात् द्विवचनप्रसङ्गाच 'चा'र्थासंभवाच्च न द्वन्द्वः । सप्तमीसमाससूत्रे च
धर्मशब्दस्यासंग्रहाद्योगविभागेन तत्समासभावेऽपि षष्ठीसप्तम्योरभेदादित्यभिप्रायवान्प्राह 10 'षष्ठीतत्पुरुषाद् [१४.२२ ] इति । षष्ठीसमासे च राजपुरुषादौ स्वाम्यन्तर
व्यवच्छेदो दृष्टो राज्ञः पुरुषो वाच्युस्येति(°षो नान्यस्येति)। तद्वदिहापि पक्षस्य धर्मो नान्यस्येत्यन्ययोगव्यवच्छेदः स्यादित्यभिसम्बन्धः ।
ननु ज्वाला [१५.२१] वह्निः । आदिशब्दाहृद्धयादि क्षणिकत्वेनेष्टमिति तत् कथमक्षणिवादिनं तं प्रति पक्षस्य(स्या)भाव इत्याह यदपीति [१५.२१] । न 15 प्रत्यक्षतः [१५.२२ ] इति ब्रुवतोयं भावः-यदि प्रत्यक्षेण क्षणस्योपलक्षणं स्यात् ,
तदा दृष्टान्तपर्येषणा पर्यवसानं गच्छेत् । यदा त्वनुमानतस्तदा तदपि तेषामनुमानमदृष्टान्तकं कथं स्यादिति साधनं दुःखमिति । एतच्च कस्यचित्परस्य क्षणिकत्वाभ्युपगममभ्युपगम्योक्तम् । न तु सहेतुनाशवादिभिर्बुद्ध्यादेरप्युत्पत्तिक्षण एव भावो न तु द्वितीये
क्षण इति एवं लक्षणं क्षणिकत्वमेष्टव्यम् , आशुतरविनाशित्वाभिप्रायेण क्षणिकशब्दप्रवृत्तेरिष्ट20 त्वादिति द्रष्टव्यमिति । तत्र प्रतिबन्धनिबन्धनस्याविनाभावस्य बाधकप्रमाणतः सिद्धावप्यन्य
स्वेऽत्रैव वृत्तिरपेक्षणीयेति परिभाषातः काल्पनिकत्वं [१५.२४ ] तस्य प्रतिपन्नं स्यादित्याशयः । प्रतिपन्नं [ १५.२५] स्वीकृतमभ्युपगतमिति यावत् । स्व(स) [१५.२६] इति स्वसाध्यप्रतिबन्धः । अन्यत्र [ १६.१ ] विनिश्चये । यदस्तु धूमादिकं
क्वचित्पर्वतादी दृष्टं निश्चितं तस्य धूमादेः यत्र वयादौ प्रतिबन्धः प्रतिबद्धत्वम् 25 तद्विदः प्रतिबन्धविदः पुंसस्तस्य प्रतिबन्धविषयस्य वयादेः तद्भूमादि[11b]'कं गमकमनुमापकं तत्र पर्वतादौ इतिः एवमर्थे । गतिर्बलं सामर्थ्यमिति यावत् ।
एवंपरम् [१६.५ ] एवंप्रधानमेतदर्थ · तत्तुल्ये सद्भावः ' इति वचनम् । स हेतुनापि तत्त्वेन (हेतुः कल्पितत्वेन) धर्मो यस्य स तद्धर्मा [१६.५] साध्यधर्मी तस्य । वस्तुबलादागतं वास्तवम् ।
१. षष्ठीसमासाच्च-5
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org