________________
पृ. १२. पं. १२. ] हेतुबिन्दुटीकालोकः। वदिति । य(त)था सपक्षव्यतिरेक इत्युच्यमाने योऽपक्षधर्मः सपक्षे च नास्ति स हेतुः स्यात् । यथा अनित्यः शब्दोऽसत्त्वादिति। पक्षधर्मे सपक्षे च योऽस्ति स हेतुरित्युच्यमाने नित्यः शब्दः प्रमेयत्वादिति' विपक्षवृत्तिहेतुः स्यात् । पक्षधर्मः सपक्षे नास्तीत्युच्यमाने नित्यः शब्दो जातिमत्त्वे सति श्रावणत्वादित्ययं सपक्षवृत्तिहीनो हेतुः स्यात् । सपक्षेऽस्ति विपक्षे च नास्तीत्युच्यमाने अनित्याः परमाणवः कृतकत्वादित्ययमपक्षधर्मो हेतुः स्यात् । 5 तदेतत्सर्वम्मा भूदिति समुदायोपादाने प्रयोजनमिति । इदमेव च सर्व बुद्धावाधाय धर्मोत्तरप्रदीपेऽस्माभिरभ्यधायि “ त्रिरूपालिङ्गादिति च आचक्षाणेन" इत्यादि ।
ननु पक्षधर्मवचने पक्षधर्मतोक्ता। अन्वयव्यतिरेकात्मकयोस्तु रूपयोः केनाभिधानं येनैवं व्याख्यायत इत्याह तदंशे[११.६ ति। अत्रैव सामर्थ्यावच्छिन्नमवदर्शयन्नाह 'नाबाधिते[ ११.७ ]त्यादि । पूर्वप्रभेदापरित्यागेनास्य भेदस्य विवक्षितत्वात् । 10 उभयमपि तच्छब्देन परामृषति । अविनाभावभाव एवाबाधितविषयत्वस्य भावात् न तद्रूपान्तरम् , वस्तूनाञ्च विरुद्धस्वभावद्वयाभावात्तत्रैकस्मिंस्तदविनाभाविनि तद्विरुद्धरूपाविनाभाविनोऽन्यस्यासंभवेनापि(प्य)प्रतिपक्षत्वं नाम तदन्तर्गतमेव । यस्य तु तद्व्यतिरिक्तमिष्टं तदभिप्रायेण व्यतिरिक्त[११.१०]ग्रहणम् । रूपान्तरस्य[११.१२] सम्भवः[११.१२] सद्भावः, स यस्यास्ति तस्मिन् ।
15 अविना[भावा]भावमेव नहि [ ११.१३ ] इत्यादिना समर्थयति । रूपान्तरयोगिन्यप्यविनाभावासम्भवादसिद्धस्तद्भाव इत्याह तद्वति [ ११.१४ ] प्रतिबन्धनिबन्धना[विना] भाववतीति । यदि तस्मिन्नपि रूपान्तरं स्यात् केवलमप्रमाणकमेतदुच्यत इत्याह यथा चे[ ११.१५]ति। [11a] 'वक्ष्यते' हेतुना व्यक्तीक्रियत इति ।
पक्षो धर्मधार्मिसमुदायः । तथाभूतसमुदायसाधकप्रमाणाभावेन तद्धर्मतया सर्वस्यैव 20 ग्रहीतुमशक्यत्वादिति भावः। अथ कथञ्चित्तद्धर्मस्य सिद्धिः [ ११.१९] निश्चयस्तस्यां वा सिद्धप्रयोजनत्वात्तस्य हेतोवैयर्थ्यम् । परस्थानपतितत्वात्पर एवासावित्यभिप्रायेण ईश्वरसेन एव परः[१२.६]अभिप्रेतः ।
अधि(व्यधि)करणत्वेन साध्याधिकरणादिभिन्नाधिकरणत्वेन असिद्धम् [१२.१२) अनिश्चितम् , तत्र चिरास्पदीभूते धर्मिणि द्वयोरप्यन्ययोरसिद्धत्वात् । इदमिह 25 स्वरूपासिद्धमिदं तु व्यधिकरणासिद्धमित्येतदेव कुतो व्यवस्थाप्यमिति चेत् । सत्यमेतत् । केवलं तत्रासिद्धोऽपि हेतुरन्यधर्मिगतत्वेनोपादीयते, स व्यधिकरणासिद्धो बोद्धव्यः ।
१. वक्ष्यति-S
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org