________________
२५८
पण्डितदुर्वेकमिश्रकृता [पृ. १०. पं. ११___ अस्मिन्व्याख्याने " हेत्वाभासास्ततोऽपरे” इति व्याख्यातुं पूर्वपक्षं रचयन्नाह 'तथैतत् [१०.११ ] इति । द्वेधा हि तदंशव्याप्तिविरहो विपर्ययव्याप्तेः विपर्यये बाधकप्रमाणाभावादित्यभिप्रायेणाह विपर्यये[ १०.१७ ]त्यादि । ते [१०.१७ ] बुद्धिनिविष्टा असिद्धविरुद्धानकान्तिका हेतुरूपविकलतया 5 हेत्वाभासा गम्यन्त एव । असिद्धेत्यादि तु वास्तवानुवादः । न तु तत्संज्ञया ज्ञातैस्तैः प्रयोजन(नं) हेतुत्वमात्रज्ञानेन चरितार्थत्वात् । एवमपि वा प्राज्ञैः ज्ञायन्त इति न काचित् क्षतिः। ___एवदेव सामान्यन्यायोपदर्शनमुखेन प्रसाधयन्नाह-तथाहि [१०.१९]
इति ।
10 अत्रापि व्याख्याने अङ्गाङ्गिभावेन प्रतिपादितानामर्थानामवच्छेदं कुर्वन्नाह
तत्रेति [ १०.२७] । तदुभयस्य-त्रिविधो हेतुरेव, त्रिविध एव हेतुरित्यस्यावधारणद्वयस्य कारणम् [११.१] उपपत्ती द्वे इत्यर्थत्वात् । श्लिष्टस्य षष्ठ्या सप्तम्या च संगतस्य, अविनाभावनियमात्-इत्यस्य निर्देशात् । अनन्तरोक्तास्त्रयोऽर्था
इमौ च द्विकारणलक्षणौ द्वावर्थापत्तयश्चक इति षडर्था भवन्ति । 15 अस्मिन्नेव श्लोके पूर्वव्याख्यानापरित्यागेनावृत्त्यैवापरमपि व्याख्यानमभ्युच्चिन्वन्नाह किश्चेति [११.४.।
ननु प्रथम एव व्याख्याने 'त्रिविधैव(विधैव) स[10b]'इति प्रभेदस्य व्युत्पादनम् ' इति ब्रुवता स हेतुस्त्रैधा कार्यस्वभावानुपलब्धिभेदभिन्न इति प्रकाशितमेवैतत्, कथं व्याख्याना
न्तरमिदमिति चेत् । सत्यमेतत् । केवलं 'त्रिधैव स ' इत्यत्र व्याख्यानान्तरमिदं विधेयं 20 तच्च तदा सुज्ञातं भवति, यद्यस्य प्राक्प्रवृत्तं व्याख्यानमुपदर्य प्रदात इत्यभिप्रायेण तद्
व्याख्यानमनूदितम् । एतदपेक्षेण तु अथवेत्यनेन किञ्चशब्दार्थमुज्ज्वलयता यत् प्रदर्श्यते तदेव व्याख्यानान्तरं द्रष्टव्यम् । अजहत्कार्यत्वादिप्रभेद एवायं प्रभेदो ज्ञातव्यः । तेनायमर्थः-कार्यादिभेदभिन्न एव प्रत्येकं पक्षधर्मत्वान्वयव्यतिरेकात्मकस्विरूप एवेति ।
एतेनैकद्विपदपर्युदासेन षट्पक्षान् . प्रतिक्षिप्य सप्तमपक्षपरिग्रहेणानुमानलक्षणमभिप्रेतं 25 वार्तिककृतो दर्शयति ।
यत एकपदपरिग्रहेण त्रयः पक्षा, द्विपदपरिग्रहेणापि त्रय इति षटम्, तत्पर्युदासेन सप्तिका(सप्तम)परिग्रहः । तथाहि पक्षधर्मो हेतुरित्युच्यमाने यस्य सपक्षेनान्वयो विपक्षे च प्रवृत्तिः सोपि हेतुः स्यात् । यथा नित्यः शब्दः कृतकत्वादिति । सपक्षे यस्यान्वय इत्युच्यमा'ने विपक्षप्रवृत्तेरपक्षधर्मस्य हेतुत्वं स्यात् । यथा नित्यः शब्दश्चाक्षुषत्वात्सामान्य
१. तत्रैतत्-s
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org