________________
पृ. १०. पं. ९. ] हेतुबिन्दुटीकालोकः ।
२५७ अत्रोच्यते । नाविनाभावो नामान्य एवान्वयव्यतिरेकवतोऽविनाभाविनो रूपात् । केवलं कयाचिद्वयपेक्षया ततो भिन्न इव कथ्यते। न तु तावता वस्तुतो भिन्न एव । अविनाभावि च रूपं किञ्चिदव्यभिचरितव्यादर्थान्तरं किञ्चिंदनन्तरम् , तस्य तत्कार्यतयैव प्रतिबन्धोऽनर्थान्त[10aj'रस्य तु तादात्म्येन । अत एवाविनाभावभावात्तादात्म्यतदुत्पत्तिव्यवहारः साध्यते । तदभावे तु तदपि रूपं नास्तीति प्रतिपाद्यत इति सर्वमवदातम् । ___ अत्र [९.१५] अस्मिन्नर्थे प्रयोगो[९.१५] द्वयवयवं साधनवाक्यम् । तदुत्पत्तिपक्षे तु तत्कारणेन चेत्यपि । ___ स्यादेतत्-यथा तादात्म्यतदुत्पत्त्यभावेऽप्यनुपलब्धिः साध्याव्यभिचारिणी तथान्यदपि किं न भवेदित्याशं क्याह स्वभावे[ ९.१८]ति । अभावव्यवहारयोग्यतायाः साधनादित्यभिप्रायः । तादात्म्यं [ ९.१९] लक्षणं निबन्धनं यस्य स तथा । तदपि- 10
आचार्यस्याभिमतमिति दर्शयन्नाह तदुक्तम् [९.२२] इति । ___इदानीमिममेव पक्षधर्म 'इत्यादिश्लोकं अन्यथा व्याचिख्यासुरनेन यावन्तोऽर्था निर्दिष्टाः तावतः परिसंख्यातुमाह-तदेवम् [९.२५] इति । 'तस्य संख्यानियमस्योपपत्तियुक्तिः।
एतच्छोकव्याख्यानस्यापरामपि विधां दर्शयन्नाह-अथवा[९.२८] इति । पूर्वन्तु 15 लक्ष्यानुवादेन लक्षणविधानपरं विवक्षितम् । न त्ववधारणचिन्ताकृतेति ततो भिन्नमिदं व्याख्यानम् । कथमिदमुक्तमवधारणमुपपद्यत इत्यभिप्रेत्य पृच्छति । किं कारणम [१०.१] अत्रेति प्रस्तावात् । किमिति सामान्यतः कारणं पृच्छति । अवि'नाभाव भावादिति श्लिष्टनिर्देशमभिसन्धाय त्रिविधस्य च [१०.३ ] इत्युक्तम् । तथा ह्यविनाभावे नियमान्नियतत्वादित्युक्ते कस्येत्याशंकायां त्रिविधस्य च श्रुतत्वात् त्रिविधस्येति युज्यते 20 वक्तुम् । । एवमुभयावधारणे(णेन) व्याख्यातेन कोर्थातिशयः प्रकाशितो भवतीत्याह तेन [ १०.३ ] इति । द्वावपि इति शब्दौ हेत्वौँ । एवमुक्तं भवति । ततः [१०.७] कारणात् त्रिविधहेतुबाह्येषु हेतुव्यवहारं कुर्वन्तो निरस्ता भवन्ति । कुतः ? अविनाभावस्याभावात् । त्रिवेधे च हेतावहेतुतामाचक्षाणा 25 निरस्ता भवन्ति । कुतः अत्रावि नाभावस्यावश्यं भावात् [१०.८ ।
१. ' तदुपदर्शकं च प्रमाणम् '-S । 'तदुपपत्तिश्च' इति आलोकसंमतः पाठः । २. अविनाभावनियमात्-S ३. आलोकसंमतः पाठः सम्यक्, न तु यथा संपूरितः . . . . ४. अहेतुत्वम्-s
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org