________________
२५६
पण्डितदुवैकमिश्रकृतो
[पृ. ९. पं. २ये [९.२ ] वस्तुस्वभावाः एवं भवन्ति [९.२] तथाभूताऽव्यभिचारिणों भवन्ति ।
भवन्तस्तर्हि किं कर्तार इत्याह-केवलम् [९.३] इति । द्रष्टारः [९.३] परिच्छेदकाः तथाभूतवस्तुस्वभावानामिति प्रकरणात् । 5 'अकस्मात्'शब्दोऽनिमित्तवचनः तेनाकस्माद्भवोऽहेतुक इत्यर्थः । इतिः [९.४] तस्मात् न कस्य चिद्वस्तुनः स स्वभावो विरमेत् । सर्वस्य सर्वः स्वभावः स्यादित्यर्थः ।
दिगादिवदहेतोः सतो देशकालनियमो नेष्ट एवेति वादिनि तु देशकालग्रहणं दृष्टान्तार्थं द्रष्टव्यम् । तेन यथा देशकालनियमो हेतुरहितस्य नास्ति तथा द्रव्यनियमोऽपि 10 न स्यादित्यर्थः ।
एतदेव तद्धि [९.५] इत्यादिना समर्थयति। 'हिर्यस्मात् तद्गमकं वस्तु कर्तृ किञ्चिद्गम्यं 'कश्चिद्(क्वचिद्) धर्मिण्युपनीयेत अग्निर्वा न वेति [९.५] तद्विपरीतं वा स्यात् । यस्य [९.५] वस्तुनो यत्र [९.६] गम्ये किश्चिद् द्रव्यम्
आयत्तं, न वेति अस्य विवरणम् अनायत्तमिति । 15 अन्वयमुखेनोक्त्वा व्यतिरेकमुखेणाप्युपपादयति अन्यथा [९.६] इति ।
'तस्माद् [९.७ ] इत्यादिनोपसंहरति ।
पादप्रसारिका [९.९ ] इति । सुखावस्थानोपलक्षणमिदं द्रष्टव्यम् । अभिधातव्यमेव कारणम् ।
__न तु भवदभिप्रेतमित्याह तच [९.१ ० ] इति । इतिः [९.१० ] तस्मात् । 20 तद्रिकला [ ९.११ ] अविनाभावरहिताः । एतदेवाचार्यवचनेन संस्यन्दयन्नाहतथा चाह [ ९.११] इति ।
स्यादेतत्-असत्यपि तत्स्वाभाव्ये तत्कार्यत्वे वा किञ्चिदर्थान्तरमव्यभिचरदृष्टमेव यथाऽऽ'तपे तरुच्छाया । यथा तुलाया अर्वाग्भागोन्नामावनामौ परभागावनामोन्नामाविति ।
एवमाद्यस्माभिर्धर्मोत्तरप्रदीपे विस्तरेण निरूपितमित्यास्तां तावदिह । 25 स्यादेतद्-अविनाभावस्य तादात्म्यतदुत्पत्त्योरव्यभिचारे निमित्तम् न तावत्तादात्म्य. ___ तदुत्पत्ती स्तो यथा चायं तथा तदन्योपि तदव्यभिचारी च स्यान्न च तस्य तत्स्वभावत्वं तत्कार्यत्वञ्चेति। १. ' क्वचिद् ' इति मुद्रिते संपूरितः पाठः सम्यक् २. ' ततो ' इति मुद्रिते संपूरितः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org