________________
पृ. ९.पं.. १]
हेतुबिन्दुटी कालोकः ।
कस्मात् तयोरेव तस्य भावः । किं पुनरन्यथापि न भावः इत्याह- अतत्स्वभा
वस्येति [८.८] |
पूर्वोक्तत' दुत्पत्तिनिषेधेन यस्य यस्मादनुत्पत्तिर्यत्कारणाद्वा तस्यातदुत्पत्तेरिति [ ८.८] बोद्धव्यम् ।
अत्र स्वातन्त्र्यजिहासया वार्तिकमुपन्यस्यति तदुक्तम् [८.९] इति । स्यादेतत्-दृष्टचरमिदं यत् अतत्स्वभावेन अनुत्पन्नेन च केनचित्कस्यचिदव्यभिचारो यथा रसादिना रूपादेरित्याह - रूपादिना [८.१५] इति । रसादेरविनाभावः [ ८.१५ ] अव्यभिचारित्वम् ।
'केनेत्याह – रूपादिना [८.१५] इति । आदिशब्दात् स्पर्शादिसहः तत्कारणोत्पत्तिरेव [८.१६] इत्यभिदधानस्तदुत्पत्तिशब्देन पूर्वं द्वे विधे विव- 10 क्षिते इति स्फुटयति ।
एतदेवान्यथा [८.१७ ] इत्यादिना द्रढयति ।
विशेषाभावोऽसिद्धः, एकार्थसमवायित्वमेव विशेष इत्यभिप्रेतुर्वचनम् एकार्थ [ ८.१९ ] इत्यादिना शङ्कते ।
एकार्थसमवाय इत्यत्र द्वयी व्युत्प[9b]'त्तिः - एकस्मिन्नर्थे एकस्मिन् समवाय एकार्थस्य 15 वा समवाय इति ।
अत्र तु एकस्मिन्नर्थे द्वयोः समवायः इति विवक्षितम् । स निमित्तं यस्य अविनाभावस्य स तथा ।
सिद्धान्ती प्रतिविधास्यमानश्चोदयति - ननु [ ८.२०] इति ।
" अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवायः " 20 [ प्रशस्त ० पृ. ६९६ ] इत्यादावाधार्याधारग्रहणादुपवर्ण्यते इत्याह ।
अस्तु तथाविधयोरसौ का क्षतिरित्याह- स च [ ८.२०] इति । चो यस्मादर्थे । तस्याभिधेयत्वेनाभिमतस्वरूपान्धकारे अतिप्रसक्तिदोषान्न सिध्यति [ ८.२१ ] । स्थित्यादिकरणेनाधारभावस्यान्यत्र निषिद्धत्वादिति भावः । इति: [८.२१] हेतौ ।
समवायमभ्युपेत्य एतदुक्तम् । तदेव तु नास्तीति संप्रति प्रतिपादयन्नाह - ' यथा च 25 [८.२२] इति । तादात्म्ये चे' [ ९.१]ति तेन सहेत्येव योजनीयम् ।
१. S प्ररत्र त्रुटितत्वात् समवायो[से] य: ' इति कल्पनया पूरितः पाठः । आलोकानुरोधेन तु स एवं स्यात् -' 'समबायोऽवसेयः । यथा च समवायः
२. बा-S
३४ हे.
Jain Education International
२५५
For Private & Personal Use Only
?
5
www.jainelibrary.org