SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २५४ [७.१३] इति । लक्षणं [७.१५] वस्तूनां विभक्तरूपं, तत् प्रयोजनमस्य इति तथा' । नियतरूप - 5 प्रतीतिरेव सर्वेण समं तस्य विरोधप्रतीतिरिति समुदायार्थः । पण्डितदुर्वेक मिश्रकृतो [ पृ. ७. पं. ११ कथं पुनस्तत्रैव तदवगमो न भवतीत्याशङ्कयाह - न हि [ ७.११] इति । मा तत्रावधारि विरोधोऽन्यत्रापि कथमत्यन्तः ( ता ) सतस्तदवगम इत्याह - सर्वत्र ' 15 10 प्रमाणयोर्द्वैतात् द्वयोरनियतरूपदर्शने कतरेणे [ ७.२५]त्युक्तम् । उपगतमित्यनेनारोपमाह । विशेषप्रतिषेधात् शेषविधानं लब्धमित्यभिप्रायेण पक्षधर्मतासद्भावेऽपि [७.२७] इत्याह । भवतु अविनाभावाभावो हेत्वाभासत्वन्तु कस्मादित्याह - अविनाभावेति [८.२] । असिद्धविरुद्धानैकान्तिकानां सामान्यधर्मेण [८.३] साधारणेन धर्मेण । संप्रति विशिष्टेन नाम्ना साधनमिदमवच्छिन्दन् आह - इति [८.३] इत्यादि । अविनाभाववैकल्यमेव तु कुतः सिद्धमित्याह - अविनाभाववैकल्यञ्च [८.५] दुर्मतीनां विस्पन्दितानि [ ७.१८] व्याकृतानि तेषु । प्रकरणं निगमयन्नाह — इति स्थितमेतत् [ ७.१८] इति । इति: [ ७.१८] इति अनन्तरोक्तमुपपत्तिप्रकारं प्रत्यवमृषति । इति : [ ७.२० ] अभिप्रायस्याभिप्रायेण विषयीकृतस्याकारं दर्शयति । 25 इति । तेभ्यः ं स्वभावादिभ्यो व्यतिरिक्तानां व्यापकानुपलब्ध्या' [८.६] वक्ष्यमाणस्य व्यापकस्यानुपलब्ध्या । - 20 तदनुपलब्धिरेव कुत इत्याह – त्रिविधे [ ८.५ ]ति । तद्भावे हि त्रिविधान्तर्भावादेव तद्व्यतिरिक्तत्वमेव न भवेदिति भावः । किं तद्वयापकानुपलब्ध्या तत्सिद्धिमध्यारोहतीत्याह – तथाहि [८.६ ] इति । तादात्म्येन तदुत्पत्ता' वेवेति (त्पत्त्या वेति) विवक्षितम् । न तु द्वाभ्यामेव । तस्मादुत्पत्तिस्तत्कारणाद्वोत्पत्तिश्च तदुत्पत्तिरिष्टा द्रष्टव्या । कुतस्ताभ्यां तस्य व्याप्तिरित्याह - तयोः [८.७] इति । तत्र [८.७] अविनाभावे । तस्य [८.८] अविनाभावस्य । तयोः [८.८] सतोरेव । १. S प्रतावत्र शङ्कितः पाठः । आलोकानुरोधेन स तु 'विरोधोऽपि तु सर्वत्र ' इति गभ्यते । २. लाक्षणिकः [ ७.१५ ] ३. व्यापकानुपलब्धितः - S Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy